________________
मूलं- ३०
१३३
एव सन्नद्धताप्रकर्षख्यापनार्था, भेदो वैषामस्ति, स च रूढितोऽवसेयः, तथा उत्पीडिता - गाढीकृता कक्षा - हृदयरज्जुर्वक्षसि - उरसि यस्य तत्तथा, 'वक्षः कक्ष' इति पाठान्तरं ।
तथा बद्धं ग्रैवेयकं - ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणैर्विराजमानं यत्तत्तथा, ग्रैवेयकबद्धभूषणविराजितमिति पाठान्तरं ततो धर्मितादीनां कर्मधारयः, अतस्तत्, 'अहियतेयजुत्तं' ति क्वचिश्यते, तत्राधिकाधिकेन - अत्यर्थ-मधिकेन अहितानां वा शत्रूणामहितेन - अपथ्येन तेजसा - प्रभावेण युक्तं यत्तत्तथा तत् ।
'सललियवरकण्णपूरविराइयं' सललिते-लालित्योपेते वरे ये कर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, 'पलंबउच्चूलमहुअरकयंधयारं' प्रलम्बान्यवचूलानि - टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरैः - भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा, ततः कर्मधारयः, अतस्तत्, वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूरं सललितप्रलम्बावचूलं च चामरोत्करकृतान्धकारं च यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छयं' चित्रः परिच्छेको लघुः प्रच्छदो - वस्त्रविशेषो यस्य तत्तथा तत्, 'पहरणावरणभरियजुद्धसज्जं' प्रहरणावरणानाम् - आयुधकवचानां भृतं यत् युद्धसज्जं च-सङ्ग्रामप्रगुणं यत्तत्तथा तत्, पाठान्तरे ‘सचापशरप्रहरणावरणभरितयुद्धसज्ज' मिति ।
सच्छत्रं सध्वजं सघण्टमिति व्यक्तम्, सपताकमित्यपि दृश्यते, तत्र पताकागरुडसिंहादिचिह्नरहिताः, 'पंचामेलयपरिमंडियाभिरामं पञ्चभि - आमेलकैः चूडाभि परिमण्डितमत एवाभिरामं - रम्यं यत्तत्तथा तत्, 'ओसारियजमलजुयघंट' अवसारितम् - अवलम्बितं यमलं- समं युगलं-द्विकं घण्टयोर्यत्र तत्तथा तत्, 'विजुपणद्धं व कालमेहं' घण्टाप्रहरणादीनामुज्ज्वलदीप्तियुक्तत्वेन विद्युत्कल्पत्वात् विद्युत्परिगतमिवेत्युक्तं, हस्तिदेहस्य कालत्वेन महत्वेन च मेघकल्पत्वात् कालमेघमित्युक्तम्, 'उप्पाइयपव्वयं व चंकमंतं' स्वाभाविकपर्वतो हि न चङ्क्रमते अत उच्यते औत्पातिकपर्वतमिव चङ्क्रम्यमाणं, पाठान्तरे तु औत्पातिकपर्वतमिव सक्खंति - साक्षात् 'मत्तं गुलुगुलंत' मिति व्यक्तं, क्वचित् 'महामेघ' मिवेति दृश्यते, 'मणपवणजइणवेगं' मनः पवनजयी वेगो यस्य तत्तथा तत्, शीघ्रवेगमिति कचित्, 'भीमं संगामियायोग्गं साङ्ग्रा मिक आयोगः - परिकरो यस्य तत्तथा तत्, पाठान्तरे 'संगामियाओज्जं' साङ्ग्रामिकातोद्यं-साङ्ग्रामिक वाद्यमित्यर्थ, पाठान्तरे साङ्गामिकम् अयोध्यं येन सहापरो हस्ती न योद्धुं शक्नोति तदयोध्यं मू. (३० - वर्तते) तए णं से जाणसालिए बलवाउअस्स एअमट्टं आणाए विनएणं वयणं पडिसुणेइ पडिणित्ता जेणेव जाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता जाणाइं पचुवेक्खेइ २त्ता जाणाई संपमजेइ २ त्ता जाणाई संवट्टेइ जाणाइं संवट्टेत्ता जाणाइं जीणे जाणाइं जीणेत्ता जाणाणं दूसे पवीणेइ २ त्ता जाणाई समलंकरेइ २ त्ता जाणाई वरभंडकमंडियाइं करेति २त्ता । जेणेव वाहणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता वाहणाइं पच्चुवेक्खेइ २ ता वाहणाई संपमज्जइ २ त्ता वाहणाइं नीणेइ २ त्ता वाहणाई अप्फालेइ २ त्ता दूसे पवीणेइ २ ता वाहणाइं समलंकरेइ २ त्ता वाहणाइं वरभंडकमंडियाइं करेइ २ त्ता वाहणाइं जाणाइं जोएइ २ त्ता पओदलट्ठि पओअधरे अ समं आडहइ आडहित्ता वट्टमग्गं गाहेइ २ त्ता जेणेव बलवाउए तेणेव उवागच्छइ २ त्ता बलवाउअस्स एअमाणत्तिअं पञ्चप्पिणइ ।
तए णं से बलवाउए नयरगुत्तिए आमंतेइ २ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International