________________
११८
औपपातिकउपाङ्गसूत्रम्-२१ समणवरसत्थवाह'त्ति व्यक्तं।
'सुसुइसुसंभाससुपण्हसास'त्ति सुश्रुतयः-सम्यकश्रुतग्रन्थाः सत्सिद्धान्ता वा सुशुचयो वा सुखः सम्भाषो येषां सुखेन वा सम्भाष्यन्त इति सुसम्भाषाः शोभनाः प्रश्नाः येषां सुखेन वा प्रश्नयन्तेयेतेसुप्रश्नाःशोभनाआशाः-वाञ्छायेषांते स्वाशाः अथवा सुखेनप्रश्नयन्तेशास्यन्ते च-शिक्ष्यन्ते ये ते सुप्रश्नशास्याः शोभनानि वा प्रश्नशस्यानि-पृच्छाधान्यानि येषां ते तथा अथवा सुप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इति, 'दइज्जन्त'त्ति दवन्तो-वसन्तः, अनेकार्थत्वाद्धातूनां, 'णिब्भय'त्तिभयमोहनीयोदयनिषेधात् 'गयभय'त्ति उदयविफलताकरणात्
संजय'त्ति संयमवन्तः, कुत इत्याह-विरय'त्ति यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरताः, विरया वा-निरौत्सुक्याः विरजसो वा–अपापाः, ‘संचयाओ विरय'त्ति क्वचिद्दश्यते, तत्र सन्निधेर्निवृत्ता इत्यर्थः, 'मुत्त'त्तिमुक्ताः ग्रन्थेन ‘लहुत्ति लघुकास्वल्पोपधित्वात् 'निरवकंख'त्तिअप्राप्तार्थाकाङक्षावियुक्ताः ‘साहूंमोक्षसाधनात् 'निहुआ'प्रशान्तवृत्तयः 'चरंति धम्मति व्यक्तम् । अत्र साधुवर्णके जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानिच गमान्तरतया निरवद्यानि, यत् पुनरत्रैव गमे पुनरुक्तमवभासते तत् स्तवत्वान्न दुष्टं, यदाह॥१॥ “सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं। .
संतगुणकित्तणासुयन हुँति पुनरुत्तदोसा उ॥ मू. (२२) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतिअंपाउन्भवित्था कालमहानीलसरिसणीलगुलिअगवलअयसिकुसुमप्पगासा विअसिअसयवत्तमिव पत्तलनिम्मलईसिसितरत्ततंबणयणा गरुलायतउज्जुतुंगणासा उअचिअसिलप्पवालबिंबफलसण्णिभाहरोहा। ..
पंडुरससिसकलविमलनिम्मलसंखगोक्खीरफेणदगरयमुणालियाधवलदंतसेढी हुयवहनिद्धंतघोयतत्ततवणिजरत्ततलतालुजीहा अजणघणसिणरुयगरमनिज्जनिद्धकेसा वामेगकुंडलधरा अद्दचंदनानुलित्तगत्ता।
वृ.असुरवर्णके किमपिलिख्यते-'कालमहाणीलसरिसणीलगुलिअगवल-अयसिकुसुमप्पगासा' कालो यो महानीलो-मणिविशेषस्तेन सद्दशा वर्णतो येते तथा,नीलो- मणिविशेषः गुलिका-नीलिका गवलं-माहिषं शृङ्गम् अतसीकुसुम-धान्यविशेषपुष्पं एतेषामिव प्रकाशोदीप्तिर्येषांतेतथा, ततःकर्मधारयः, कालवर्णा इत्यर्थ, 'विअसिअसयवत्तमिवे'तिव्यक्तं, पत्तलणिम्मलईसीसियरत्ततंबणयणा' त्तलानि-पक्ष्मवन्ति निर्मलानि-विमलानि ईषत् सितरक्तानि क्वचिद्देशे मनाक् श्वेतानि कवचिच्च मनाग्रक्तानीत्यर्थ क्वचिच्च ताम्राणि-अरुणानि नयनानि येषां ते तथा।
___ शतपत्रसाधयं च व्यक्तमेव, 'गरुले' त्यादिविशेषणचतुष्टयं महावीरवर्णकवन्नेयम् 'अंघणघणकसिणरुयगरमणिज्जणिद्धकेसा' अअनघनौ-प्रतीतौ कृष्णः कालः रुचकोमणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केश येषां ते तथा, 'वामेगकुंडलधरा' वामे कर्णे एकमेव कुण्डलंधारयन्तियेतेतथा, दक्षिणे त्वाभरणान्तरधारिणइति सामर्थ्यगम्यम्, आर्द्रचन्दनानुलिप्तगात्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org