________________
११३
मूलं-२०
वृ. 'कंदणय'त्ति महता शब्देन विरवणं 'सोअणय'त्ति दीनता, 'तिप्पणय'त्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता-पुनः पुनः क्लिष्टभाषणमिति, 'उसण्णदोसे'त्ति उसण्णेन-बाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनृतादत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तता 'बहुदोसे'त्तिबहुष्वपिसर्वेष्वपि हिंसादिषु ४ दोषः-प्रवृत्तिलक्षणोबहुदोषः अन्नाणदोसे'त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिंसादिष्वधर्मस्वरूपेषु धर्मबुद्धया या प्रवृत्तिस्तल्लक्षणो दोषः अज्ञानदोषः, 'आमरणंतदोसे'त्ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम्, असंज्ञातानुतापस्य कालसौकरिकादेरिवयाहिंसादिषु ४ प्रवृत्ति सैव दोषःआमरणान्तदोषः, इह चातरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले त्वासेव्यतयेति
चउप्पडोयारेत्तिचतुर्भु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषुपदार्थेषुप्रत्यवतारः-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुष्प्रत्यवतारमिति।
_ 'आणाविजए'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थ, एवं शेषपदान्यपि, नवरम् अपायाःरागद्वेषादिजन्या अनर्था, विपाकः-कर्मफलं, संस्थानानि-लोकद्वीपसमुद्राधाकृतयः।
'आणारुईत्ति नियुक्त्यादिश्रद्धानं 'निसग्गरुईत्ति स्वभावत एव तत्वश्रद्धानम् 'उवएसरुईत्ति साधूपदेशात्तत्वश्रद्धानं 'सुतरुईत्तिआगमत्तत्त्वश्रद्धानम् आलंबणत्तिआलम्बानानिधर्मध्यानसौधशिखरारोहणार्थंयान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि, अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः ।
मू. (२०-वति) सुक्कज्झाणेचउविहे चउप्पडोआरे पन्नत्ते, तंजहा-पुहुत्तवियक्कसविआरी १एगत्तवियक अविआरीर सुहुमकिरिए अप्पडिवाई ३ समुच्छिन्नकिरिए अनियट्टी, ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नता, तंजहा-विवेगे विउसग्गे अव्वहे असम्मोहे। . सुक्कस्सणं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा-खंती मुत्ती अजवे मद्दवे, सुक्कस्स णं झाणस्स चत्तारि अनुप्पेहाओ पन्नत्ताओ, तंजहा–अवायामुप्पेहा असुभाणुप्पेहा अनंतवित्तिआणुप्पेहा विप्परिणामामुप्पेहा, सेतं झाणे॥
वृ. 'पुहुत्तवियक सविआरी'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्क, तथा विचारः-अर्थाद्वयञ्जनेव्यअनादर्थे मनःप्रभृतियोगानांचान्यस्मादन्यतरस्मिन् विचरणंसह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः ।
तथा “एगत्तवियक्के अविआरी'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ, वितर्क-पूर्वगतश्रुताश्रयो व्यानरूपोऽर्थरूपोवायस्यतदेकत्ववितर्क, तथा न विद्ये विचारोऽर्थव्यअनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति।
_ 'सुहुमकिरिए अप्पडिवाइ'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्गनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत् सूक्ष्मत्रियम्, अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद्, एतच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org