________________
६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/१
यस्यां सा प्रमुदितजनजानपदा 'आइण्णजणमणुस्सा' मनुष्यजनेनाकीर्णा - संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णनमनुष्येत्युक्तं,
‘हलसयसहस्ससंकिट्ठवियट्ठलट्ठपन्नत्तसेउसीमा' हलानां - लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा–लक्षैः संकृष्टा– विलिखिता विकृष्टं - दूरं यावदविकृष्टा वा - आसन्ना लष्टा - मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'पन्नत्ते 'ति योग्या कृता बीजवपनस्य सेतुसीमामार्गसीमा यस्याः सा तथा, अथवा संकृष्टादिविशेषणानि सेतूनि - कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा अनेन तञ्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तं, -
'कुक्कुडसंडेयगामपउरा' कुक्कुटाः - ताम्रचूडा पाण्डेयाः - षण्ढपुत्रकाः षण्ढा एव तेषां ग्रामाः - समूहास्ते प्रचुराः - प्रभूता यस्यां सा तथा अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थं कुक्कुटान् पोषयति षष्ठांश्च करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नह्येवंप्रकारवस्त्वभावेन प्रमोदो जनस्य स्यादिति, 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः - प्रचुरा यस्यामिति वाक्यं गवेलका - उरभ्राः, -
‘आयारवंतचेइयजुवइविधिहसन्निविट्ठबहुला' आकारवन्ति - सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च - तरुणीनां पण्यतरुणीनामिति हृदयं यानि विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानिबहूनि यस्यां सा तथा 'उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया' उक्कोडा उत्कोटा–लञ्चेत्यर्थः तया ये व्यवहरन्ति ते उत्कोटिकाः गात्रान्-मनुष्यशरीरावयवविशेषान् कट्यादेः सकाशाद्ग्रन्थिकार्षापणादिपोट्टलिकां भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदा भटाः - चारभट्वलात्कारप्रवृत्तयः तस्कराः - तदेव - चौर्यं कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा - दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणमभावमाह, 'खेमा' अशिवाभावात् 'निरुवद्दुवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः, ‘'सुभिक्षा' सुष्ठु - मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः - सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा, 'अनेगकोडीकोटुंबियाइण्णनिव्वयसुहा' अनेकाः कोट्यो द्रव्यसंख्यायां स्वरूपपरिमाणे वा येषां ते अनेककोट्यः तैः कौटुम्बिकैःकुटुम्बिभिश्चाकीर्णा संकुला या सा तथा सा चासौ निर्वृता च - संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च वेति कर्मधारयः,
'नडनट्टगजल्लमुट्ठियवेलंगबगकहकपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियअनेगतालाचराणुचरिया' नटा - नाटकानां नाटयितारो नर्त्तका - ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलकाः राज्ञः स्तोत्रपाठका इत्यन्ये मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका - विदूषकाः कथकाः - परतीताः - प्लवका - ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः आख्यायिका- ये शुभाशुभमाख्यान्ति लङ्खा–महावंशाग्रखेलका मङ्खाः- चित्रफलकहस्ता भिक्षाकाः तूणइल्ला - तूणाभिधानवाद्यविशेषवन्तः तुम्बवीणिका - वीणावादका अनेके च ये तालाचराः - तालादानेन प्रेक्षाका - रिणस्तैरनुचरिता - आसेविता या सा तथा, 'आरामुज्जाणअगडतलायदीहियवप्पिणगुणोववेया'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org