________________
८२
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३९ द्वित्रिचतुष्पञ्चषट्सप्तमासमानाः, अष्टमीनवमीदशम्यः प्रत्येकं सप्ताहोरात्रमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, ॥१॥ तत्र 'परडिवज्जइ एयाओ संघणयधिइजुओ महासत्तो।
पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ। ॥२॥ गच्छेचिया निम्माओ जा पुव्वा दस भवे असंपुण्णा।
नवमस्स तइय वत्थू होइ जहन्नो सुयाहिगमो॥ ॥३॥ वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी।
एसण अभिग्गहिया भत्तं च अलेवडं तस्स ॥ ॥४॥ दुट्ठस्सहत्थिमाइ तओ भएणं पयंपिनोसरइ ।
एमाइ नियमसेवी विहरइजाऽखंडिओ मासो ।' इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः यच्चेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिस-मुपदिष्टत्वादनवद्यमवसेयमिति, 'यथासूत्र' सूत्रानतिक्रमेण 'यथाकल्पं प्रतिमाचारानतिक्रमेण यथामार्ग' ज्ञानादयनतिक्रमेणक्षायोपशमिकभावानतिक्रमेण वाकायेन न मनोरथमात्रेण 'फासेइत्तिउचितकाले विधिनाग्रहणात् 'पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेषभोजनकरणात् शोधयति वा-अतिचारपकक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्तयति' पारणकदिने इदं चेदं चैतस्याः कृत्यं कृमित्येवं कीर्तनात् ।
गुणानां-निर्जराविशेषाणां रचना-करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तत्तपो गुणरचनसंवत्सरं गुणा एव वा रलानि यत्र स तथा गुणरलः संवत्सरो यत्र तपसि तद्गुणरलसंवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायं॥१॥ __“पन्नरस वीस चउवीस चेव चउवीस पण्णवीसा य।
चउवीस एकवीसा चउवीसा सत्तवीसाय॥ तीसा तेतीसावि यचउवीस छवीस अट्ठवीसा य ।
तीसा बत्तीसावि य सोलस मासेसु तवदिवसा॥ पन्नरसदसट्ठ छप्पंच चउर पंचसुय तिण्णि तिण्णित्ति।
पंचसु दो दो य तहा सोलसमासेसुपारगणा ॥" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतमासादाकृष्य पूरणीयान्यधिकानिचाग्रेतनमासे क्षेप्तव्यानीति । 'चउत्थ;मित्यादि, चत्वारिभक्तानियत्रत्यज्यन्ते तच्चतुर्थ, इयंचोपवासस्य संज्ञा, एवंषष्ठादिरूपवासद्वयादेरिति, अणिक्खित्तेणं तिअविश्रान्तेन 'दिया ठाणुक्कुडुएणं' दिवा-दिवसे स्थानं-आसनमुत्कुटुकं आसनेषु पुतालगनरूपं यस्य स तथा आतापयन्-आतापनांकुर्वन् 'वीरासणेणं ति सिंहासनोपविष्टस्य भुविन्यस्तपादस्यापनीतसिंहासनस्येवयदवस्थानंतद्वीरासनंतेन व्यवस्थितइतिगम्यते।किंभूतेन अप्रावृतेन-अविद्यमानप्रावरणेन स एव वा अप्रावृतः णंकारस्तु अलङ्कारार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org