SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१ पलम्बलंबोयराहरकरेत्ति-प्रलम्बंच लम्बी चक्रमेणोदरंच-जठणरधरकरौ च-ओष्ठहस्तौ यस्य स तथा, पाठान्तरे लम्बी लम्बोदरस्येवगणपतेरिवअधरकरौ यस्य स तथा, धनुःपृष्ठाकृति-आरोपितज्यधनुराकारं विशिष्टं-प्रधानं पृष्ठं यस्य सतथा,आलीनानिसुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि-वृत्तानि पीवराणि-उपचितानि गात्राणि-अङ्गानि अपराणि-वर्णितगात्रेभ्योऽन्यानिअपरभागगतानिवा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं-उरःअपरश्च-पश्चाद्भागोयस्यसतथा, वाचनान्तरे विशेषणद्वयमिदं-अभ्युद्गता-उन्नता मुकुलमल्लिकेव-कोरकावस्थविचकिलकुसुमवद्धवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाधवलदन्तः आनामितं यच्चापं-धनुस्तस्येव ललितं-विलासो यस्याः सा तथा सा च संवेल्लिता च-संवेल्लन्ती सोचिता वाअग्रसुण्डा-सुण्डाग्रंयस्य सआनामितचापललितसंवेल्लिताग्रसुण्डः, आलीनप्रमाणयुक्तपुच्छःप्रतिपूर्णाः सुचारवः कूर्मवच्चरणायस्य सतथापाण्डुराः-शुक्लाः सुविशुद्धाः-निर्मलाः स्निग्धाः-कान्ता निरुपहताः-स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्रत्वंहेमेघ १ 'बहुभिर्हस्त्यादिभिः सार्द्धसंपरिवृतःआधिपत्यं कुर्वन् विहरसीतिसम्बन्धः तत्र हस्तिनः-परिपूर्णप्रमाणाः लोट्टकाः-कुमारकावस्थाः कलभाः-बालकावस्थाः हस्तिसहस्य नायकः-प्रधानः न्यायको वा-देशको हितमादिः प्राकर्षीप्राकर्षको अग्रगामी प्रस्थापको-विविधकार्येषु प्रवर्तको यूथपतिः-तत्स्वामी वृन्दपरिवर्द्धकः-तद्वृद्धिकारकः 'सइं पललिए'त्ति सदा प्रललितः-प्रक्रीडितः कन्दर्परतिः-केलिप्रियः मोहनशीलो-निधुवनप्रियः अवितृप्तो-मोहनेएवानुपरतवाञ्छः, तथा सामान्येन कामभोगेऽतृषितः गिरिषुच-पर्वतेषुदरीषु च-कन्दरविशेषेषु कुहरेषुच-पर्वतान्तरालेषुकन्दरासुच-गुहासु उज्झरेषुच-उदकस्यप्रपातेषु निझरेषु च-स्यन्दनेषु विदरेषु च-क्षुद्रनद्याकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु वा गर्तासु च-- प्रतीतासु पल्वलेषु च-प्रह्लादनशीलेषु चिल्ललेषु च-चिक्खिल्लमिश्रेषु कटकेषु च-पर्वततटेषु कटकपल्वलेषु-पर्वततटव्यस्थितजलाशयविशेषेषुतटीषुच-नद्यादीनांतटेषुवितटीषुच-तास्वेव विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते, ___टङ्केषु च-एकदिशि छिन्नेषु पर्वतेषु कुटकेषुच अधोविस्तीर्णेषूपरिसंकीर्णेषु वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषुवा शिखरेषुच-पर्वतोपरिवर्तिकूटेषुप्राग्भारेषुच-ईषदवनतपर्वतभागेषु मञ्चेषुच-स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषुमालेषुच-श्वापदादिरक्षार्थेषुतद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषुअथवा यत्परतः पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणिवा तेषुवनेषु च-एकजातीयवृक्षेषुवनखण्डेषुच अनेकजातीयवृक्षेषुवनराजीषुच-एकानेकजातीयवृक्षाणां पङ्कितषु नदीषु च-प्रतीतासु नदीकक्षेषु च-तद्गहनेषु यूथेषु च वानरादियूथाश्रयेषु सङ्गमेषु च-नदीमीलकेषु वापीषु च-चतुरासु पुष्करिणीषु च-वर्तुलासु पुष्करवतीषु वा दीर्धिकासु च-ऋजुसारिणीषु गुंजालिकासुच-वक्रासिणीषु सरस्सु च-जलाशयविशेषेषु सरःपतितकासु च-सरसां पद्धतिषु सरःसरःपङ्कितकासु च-यासु सरःपङ्कितषु एकस्मात्सरसोऽ न्यस्मिन्नन्यस्मादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरत्वात्, निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy