SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ द्वारं-, अध्ययनं-५, ५२७ यानि कवेत्याह-कथिताः-प्रतिपादिताः अर्हच्छासने-जिनागमे पञ्चसमासेन-सङ्केपेण संवराःसंवरद्वाराणि विस्तारेण तु पञ्चविंशतिः प्रतिव्रतं भावनापञ्चकस्य संवरतया प्रतिपादितत्वादिति अथ संवरासेविनो भाविनी फलभूतामवस्थां दर्शयति-समितः ईर्यासमित्यादिभिः पञ्चविंशतिसङ्ख्याभिरनन्तरोदिताभिः भावनाभिः सहितो ज्ञानदर्शनाभ्यां सुविहितो वा संवृतश्च कषायेन्द्रियसंवरेण यः स तथा सदा-सर्वदा यत्नेन-प्राप्तसंयमयोगेषु प्रयत्नेन घटनेनअप्राप्तसंयमयोगप्राप्तयर्थघटनया सुविशुद्धं दर्शनं श्रद्धानरूपं यस्य स तथा, एतान् उक्तप्रकारान् संवरान् अनुचर्य-आसेव्य संयतः-साधुः चरमशरीरधरो भविष्यति पुनः शरीरस्याग्रहीता भविष्यतीति भावः, वाचनान्तरे पुनर्निगमनमन्यथाऽभिधीयते यदुत एतानि पञ्चापि सुव्रत ! महाव्रतानि लोकधृतिदव्रतानि श्रुतसागरदर्शितानि तपःसंयमव्रतानि शीलगुणधरव्रतानि सत्यार्जवव्रतानि नरकतिर्यङ्गनुजदेवगतिविवर्जकानि सर्वजिनशासनकानि कर्मरजोविदारकाणि भवशतविमोचकानि दुःखशतविनाशकानि सुखशतप्रवर्तकानि कापुरुषदुरुत्तराणि सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रयाणकानि पञ्चापि संवरद्वाराणि समाप्तानीति ब्रवीमीति॥ मू. (१७) पण्हावागरणेणंएगोसुयक्खंधोदस अज्झयणा एक्कासरगा दससुचेव दिवसेसु उद्दिसिजंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स संवरद्वारे अध्ययनं -१० समाप्तम् ॥१॥ ___ नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ।। ॥२॥इह हि गमनिकार्थं यन्मयाऽभ्युहयोक्तं, किमपि समयहीनं तद्विशोघ्यं सुधीभिः। ___ नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनांचाङ्गिवर्गे ॥ ॥३॥ परेषां दुर्लक्ष्या भवति हि विवक्षा स्फुटमिदं, विशेषावृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां माध्शजनैः, ततः शास्त्रार्थ मे वचनमनधं दुलर्भमिह ॥ ॥४॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः सुयलतः। न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः॥ तथैव माऽस्तु मे पापं, सङ्घमत्युपजीवनात्। - वृद्धन्यायानुसारित्वात्, हितार्थं च प्रवृत्तितः ।। मुनि दीपरलसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाग सूत्रस्य अभदेवसूरि विरचिता टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy