SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४९८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ च-प्रक्रमाद्विकृतं नाट्यंच-नृत्तं च गीतं च-गानं वादितंच-पटहादिवादनं नटाश्च नाटयितारो नर्तकाश्च-येनृत्यन्तिजल्लाश्च-वरत्राखेलकाःमल्लाश्च-प्रतीताः एतेषांप्रेक्षणंचनानाविधवंशखेलकादिसम्बन्धि वेलम्बकाश्च-विडम्का विदूषका इति द्वन्द्वः छान्दसत्त्वाच्च प्रथमाबहुवचनलोपो दृश्यः, वर्जयितव्या इति योगः, किंबहुना?, ___यानि च वस्तूनि श्रृङ्गारागाराणि--श्रृङ्गारसगेहानीव अन्यानि च-उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्याणां घातश्च देशत उपघातश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोपघातिकानि, किमत आह-अनुचरता-आसेवमानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालमन्यथा ब्रह्मचर्यव्याघातो भवतीति, तथा भावियतव्यश्च भवत्यन्तरात्मा एभिर्वक्ष्यमाणैः तपोनियमशीलयोगैः-तपःप्रभृतिव्यापारैः नित्यकालं-सर्वदा, 'किं ते' तद्यथा अस्नानकंचादन्तधावनं च प्रतीते 'स्वेदमलधारणं च तत्रस्वेदः-प्रस्वेजः मलः-कक्खडीभूतः यातिच लगतिचेति जल्लो-मलविशेष एव मौनव्रतं च केशलोचश्च प्रतीतौ क्षमा च-क्रोधनिग्रहः दमश्च-इन्द्रियनिग्रहः अचेलकंच-वस्त्राभावःक्षुत्पिपासे प्रतीतेलाघवंच-अल्पोपधित्वंशीतोष्णे च प्रतीते काष्ठशय्या च-फलकादिशयनं भूमिनिषद्या च-भूम्यासनं तथा परगृहप्रवेशे च शय्याभिक्षाद्यर्थं लब्धेच-अभिमताशनादौअपलब्धेवा-ईषल्लब्धेऽलब्धेवायो मानश्च-अभिमानः अपमानश्च-दैन्यं निन्दनं-कुत्सनं दंशमशकस्पर्शश्च नियमश्च-द्रव्याद्यभिग्रहः तपश्च-अनशनादि गुणाश्च-मूलगुणादयः विनयश्च-अभ्युत्थानादिरिति द्वन्द्वस्तत एते आदिर्येषां योगानां ते तथा तैर्भावयितव्योऽन्तरात्मेति प्रकृतं, भावना-अस्नानादीनामासेवा मानापमानिन्दनदंशादिस्पर्शानां चोपेक्षा, कथमभिर्भावयितव्यो भवन्त्यन्तरात्मेत्याह-यथा 'से' तस्य ब्रह्मचारिणः स्थिरतरं भवति ब्रह्मचर्य, "इमंचे'त्यादि प्रवचनस्तवनं पूर्ववत् 'तस्से'त्यादि तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भवन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थतायै तत्र 'पढमंतिपञ्चानांप्रथमंभावनावस्तुस्त्रीसंसक्ताश्रयवर्जनलक्षणं, तच्चैवं-शयनं-शय्या आसनं-विष्टरंगृहद्वारं-तस्यैव मुखंअङ्गणं-अजिरंआकाशं-अनावृतस्थानं गवाक्षो-वातायनः शाला-भाण्डशालादिकाअभिलोक्यतेयत्रस्थैस्तदभिलोकनं-उन्नतस्थानं पच्छवत्थुग'त्तिपञ्चाद्वास्तुकं-पञ्चादगृहकं तथा प्रसाधकस्य-मण्डनस्य स्नातिकायाश्च-स्नानक्रियाया येऽवकाशा-आश्रयास्ते तथा तेचेतिद्वन्द्व, ततः एते स्त्रीसंसक्तेन सङ्किलष्टा वर्जनीया इति सम्बन्धः, तथा अवकाशा आश्रया ‘जे य वेसियाणं'ति ये च वेश्यानां तथा आसते च-तिष्ठन्ति च यत्रयेष्ववकाशेषुच स्त्रियः, किम्भूताः?-अभीक्ष्णं-अनवरतंमोहदोषस्य-अज्ञानस्य रतेः-कामरागस्य रागस्य च--स्नेहरागस्य वर्धना-वृद्धिकारिका यास्तास्तथा कथयन्तिच-प्रतिपादयन्ति तथा बहुविधाः-बहुप्रकाराः जातिकुलरूपनेपथ्यविषयाः स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथास्वपियुज्यते, तेहुवजणिज्ज'त्तिये शयनादयोयेचवेश्यानामवकाशा येषु चासते स्त्रिः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्यालङ्कारे, किंविधा इत्याह 'इस्थिसंसत्तसंकिलिट्ठ'त्ति स्त्रीसंसक्तेन-स्त्रीसम्बन्धेन सङ्किलष्टा ये ते तथा, न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy