________________
४६६
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ प्रशान्तजीविभीः बहिर्वृत्त्यपेक्षया, विविक्तैः - दोषविकलैर्भक्तादिभिर्जीवन्ति ये ते विविक्तजीवनिनस्तैः, अक्षीरमधुसर्पिष्कैः- दुग्धक्षौद्रघृतवर्जकैः 'ठाणाइएहिं 'ति स्थानं - ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्त्तनस्थानं तदभिग्रहविशेषेणाददति-विदधति ये ते तथा तै;,
1
एतदेव प्रपञ्चयति- 'प्रतिमास्थायिभिः ' प्रतिमया - कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति ये ते तथा तैः स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनंभून्यस्तापादस्यसिंगासनोपवेशनमिव तदस्ति येषां ते वीरासनिकास्तैः निषद्यासमपुतोपवेशनादिका तया चरन्तीति नैषधिकास्तैः, दण्डस्येवायत् संस्थानं येषामस्ति ते दण्डातिकास्तैः, लगंड - दुःसंस्थितं काष्ठं तद्वच्छिरःपार्णीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च"वीरासणं तु सीहासणे व्व जह मुक्कजाणुग निविट्ठो ।
119 11
दंडगलगंडउवमा आयत कुजे य दोपहंपि ।। "
एक एव पार्श्वो भूम्या सम्बध्यते येषां न द्वितीयेन पार्श्वेन भवन्तीत्येकपार्श्विकास्तैः, आतापनैः - आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह
119 11
“आयावणा उतिविहा उक्कोसा मज्झिमा जहन्ना य ।
उक्साउ निवन्ना निसन्न मज्झा ठिय जहन्ना ।।"
अप्रावृत्तैः प्रावरणवर्जितैः 'अनिड्डुभएहिं 'ति अनिष्ठीवकैर्मुखश्लेष्मणोऽपरिष्ठापकैः 'अकण्डूयकैः' अकण्डूयनकारकैः 'धूतकेशश्मश्रुरोमनखैः' धूताः - संस्कारापेक्षया त्यक्ताः केशाःशिरोजाः श्मश्रूणि - कूर्चाः केशाः रोमाणि - कक्षादिलोमानि नखाश्च प्रसिद्धा यैस्ते तथा तैः सर्वगात्रप्रतिकर्मविप्रमुक्तैः अभ्यङ्गादिवर्जनात् 'समणुचिन्न' त्ति समनुचार्णा आसेवितेत्यर्थः, तथा श्रुतधराःसूत्रधराः विदितोऽर्थकायः - अर्थराशिः श्रुताभिधयो यया सा तथा सा विदितार्थकाया बुद्धिः मतिर्येषां ते तथा ततः कर्मधारयः श्रुतधरविदितार्थकायबुद्धयस्तै समनुपालितेति सम्बन्धः, तथा धीरा-स्थिरा अक्षोभा वा मतिः - अवग्रहादिका बुद्धिश्चा-उत्पत्तित्यादिका येषां ते तथा, ते च ये ते इत्युद्देशः, आशीर्विषा - नागास्ते च ते उग्रतेजसश्च - तीव्रप्रभावास्तीव्रविषा इत्यर्थः तत्कल्पाःतत्सदृशाः शापेनोपघातकारित्वात्, तथा निश्चयो - वस्तुनिर्णय व्यवसायः - पुरुषकारस्तयोः पर्याप्तयोः - परिपूर्णयोः कृता - विहिता मतिः - बुद्धिर्यैस्ते तथा, पाठान्तरेण निश्चयव्यवसायौ विनीतौ - आत्मानि प्रापितो यैः पर्याप्ता च कृता मतिर्यैस्ते तथा नित्यं सदा स्वाध्यायोवाचनादिध्यानं च-चित्तनिरोधरूपं येषां ते तथा, ध्यानविशेषोपदर्शनार्थमाह- अनुबद्धं - सत्तं धर्म्मध्यानं - आज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्म्मध्यानाः ततः कर्म्मधारयः, पञ्चमहाव्रतरूपं यच्चरित्रं तेन युक्ता ये ते तथा, समिताः सम्यक्प्रवृत्ताः समितिषश्वीर्यासमित्यादिषु शमितपापाः- क्षपितकिल्बिषाः षड्विधजगद्वत्सलाः - षड्जीवनिकायहिताः 'निच्चमप्पमत्ता' इति कण्ठ्यं 'एएहि अ'त्ति ये ते पूर्वोक्तगुणा एतैश्चान्येश्चानुकूललक्षणैर्गुणवद्मिर्याऽसावनुपालिता भवगती अहिंसा प्रथमं संवरद्वारमिति हृदयं ।
अथाहिंसापालनोद्यतस्य यद्विधेयं तदुच्यते - 'इमं चे 'त्यादि, अयं च वक्ष्यमाणविशेषण उञ्छो गवेषणीय इति सम्बन्धः, किमर्थमत आह- पृथिव्युदकाग्निमारुततरुगणत्रसस्थावरसर्वभूतेषु विषये या संयमदया-संयमात्मिका घृणा न तु मिथ्याध्शामिव बन्धात्मिका तदर्थं - तद्धेतोः शुद्धः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International