________________
४५०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२०
दर्शितेषु राजसु रागमकुर्वती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्रविजयादीनामनुजेन देशान्तरसञ्चारिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं बिभ्रता॥१॥ मुग्धमृगनयनयुगले ! शीघ्रमिहागच्छ मैव चिरयस्य।
कुलविक्रमगुणशालिनि ! त्वदर्थमहमागतो यदिह ॥ इत्यक्षरानुकारिध्वनौ प्रवादिते पणवे समुत्फुल्ललोचना सञ्जातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गले मालामवलम्बितवती, ततस्ते राजान ईर्ष्याशल्यवितुद्यमानमानसा वसुदेवेन सार्द्धसङ्ग्रामायोपतस्थुः, तेन च रणरङ्गरसिकेन सर्वान् विनिर्जित्य रोहिणी परिणीता, जातश्च तस्या रामाभिधानो बलदेवः सूनुरिति ।
अन्येषु च एवमादिकेषु-एवंप्रकारेषु बहवः सङ्ग्रामा इति सम्बन्धः महिलाकृतेषुस्त्रीप्रयोजनेषु श्रूयन्ते अतिक्रान्ताः-अतीताः सङ्ग्रामाः ग्रामधर्ममूलाः-विषयहेतवः, ते चाब्रह्मसेविन इहलोकेतावन्नष्टाः परदाराभिगमनेनाकीर्तिप्राप्तेः तथा परलोकेऽपिच नष्टाः, किम्भूता इत्याह
'महयामोहतमिसंधयारे'त्ति महामोह एव तमिान्धकारं-अत्यन्ततमो यत्र स तथा तत्र घोरे-दारुणे, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थानवरसूक्ष्मबादरेषु समयप्रसिद्धेषु पर्याप्तकापर्याप्तकसाधारणशरीरप्रत्येकशरीरेषुचसमयप्रसिद्धेष्वेव तथा अण्डजाः-पक्षिमत्स्यादयः पोतमिव-वस्त्रमिवजरायुवर्जितत्वेन पोतादिव वा-बोधित्थादिव जाताः पोतजा-हस्त्यादयः ते चजरायुः-गर्भवेष्टनंतत्र जाताः जरायुजाः-मनुष्यादयः तेच रसे-तीमनारनालादौ जाता रसजाः तेच संस्वेदेन निर्वृत्ताः संखेदिमा-यूकामत्कुणादयः तेचसम्मूर्छन निर्वृत्ताः सम्मूर्छिमाः-दर्दुरादयस्ते च उद्भिद्य भुवं जाता उद्भिज्जाः-स्वञ्जनकादयः तेच उपपाते भवा औपपातिका-देवनारकास्ते चेति द्वन्द्वोऽतस्तेषु च, एतानेव सङ्ग्राहेणाह-नरकतिर्यग्देवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति प्रकृतं, कियन्तं कालं यावत्ते तत्र नष्टा भवन्तीत्युच्यते-पल्योपमसागरोपमाणि बहूनीति गम्यते, तथा अनादिकमनवदग्रं अनन्तं, एतदेवाह-'दीहमद्धं'ति दीर्घाद्धं-दीर्घकलं दीर्घाध्वं वा-दीर्घमार्गं चातुरंतं-चतुर्गतिकं संसारकान्तारं अनुपरिवर्तन्ते जीवा महामोहवशेन सन्निविष्टा अब्रह्मणि येते तथा, ‘एसो' इत्यादि पूर्ववदिति ।।
अधर्मद्वारे - अध्ययनं -४ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअगसूत्रे अधर्मद्वारे चतुर्थअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
___-अधर्मद्वारे-अध्ययनं-५ - परिग्रह:दृ. अथ पशमं व्याख्यायते--अस्य चैवंपूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने अब्रह्मस्वरूपमुक्तं, तच्च परिग्रहे सत्येव भवतीति परिग्रहस्वरूपमत्रोच्यते इत्येवंसम्बन्धस्यास्येदं परिग्रहस्वरूपप्रतिपादनप्रस्तावनापरमादिसूत्रम्
मू. (२१) जंबू ! इत्तो परिग्गहो पंचमो उ नियमा नानामणिकणगरयणमहरिहपरिमलसपत्तदारपरिजण दासीदासभयगपेसहयगयगोमहिसाउट्टखरअयगवेलगसीयासगडरहजाणजग्गसंदणसयणासणवाहणकुवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org