SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४४८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० ततः कुपितोऽसौ तां प्रति सापल्यमस्याः करोमीति विभाव्य कुण्डिनीं नगरीमुपगतः, रुक्मिण्याचप्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांश्चतत्पुरतो व्यावर्णयन् तं प्रति तां सानुरागामकरोत, तद्रुपं च चित्रपटे विलिख्य कृष्णस्य तदुपदश्य तां प्रति तमपि साभिलाषमकार्षीत्, ततः कृष्णोरुक्मिणंता याचितवान्, रुक्मिणोऽपि न दत्तवान्, शिशुपालाभिधानंचमहाबलं राजसूनुमानीय विवाहमारम्मभितवान्, रुक्मिणीसत्कया पितृष्वा च कृष्णस्य रुक्मिण्यपहरणार्थो लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतो, रुक्मिणी च पितृष्वा सह चेटिकापरिवृता देवतार्चनव्याजेनोद्यानमागता, कृष्णेन रथमारोपिता, ततस्तौ द्वारिकाभिमुखौ तांगृहीत्वाप्रचलितो, पूत्कृतंच चेटिकाभिःनिर्गतौसदोचतुरङ्गसैन्यसमग्रौ रुक्मिणीव्यावर्तनार्थं रुक्मिशिशुपालमहाराजौ, ततो विनिवृत्त्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तद्वलं विमुक्तौ कृच्छ्रजीवितौ शिशुपालरुक्मिणाविति। तथा पद्मावतीकृते सङ्गामोऽभूत्, तत्र अरिष्ठनगरे राममातुलस्य हिरण्यनाभाभिधान-नराधिपस्य दुहिता पद्मावती बभूव, तस्याश्चस्वयंवरमुपश्रुत्य रामकेशवावन्ये च राजकुमारा-स्तत्राजग्मुः, ततश्च । ॥१॥ “पूएइ भाइणिज्जे विहीए सो तत्थ रामगोविंदे। रेवगनामो जेट्ठो भाया य हिरण्णनाभस्स। ॥२॥ पिउणा सह पव्वइओ सो तत्थ नमिजिनस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बंधुमई॥ ॥३॥ दुहियाओ पढम चिय दिन्नाओ आसि तेण रामस्स । तत्थ य सयंवरंमी सव्वेसिनरवरिंदाणं॥ ॥४॥ पुरओच्चिय तं गेण्हइ आहवकुसलाण कन्नगं कण्हो। जायं च पत्थिवेहिं जुज्झंसह जायवाणऽउलं ।। ॥५॥ सव्वत्तो विद्दविओ मुहुत्तमित्तेण सव्वनरनाहो । रामो कन्नचउक्कं हरीवि पउमावईकन्नं ॥" गहिउं ताहिं समेया समागया नियपुरवरे सतारायाः कृते सङ्ग्रामोऽभवत्, तथाहि-किंकिन्धपुरे वालिसुग्रीवाभिधानावादित्यरथाभिधानस्य विद्याधरस्य सुतौ वानरविद्यावन्तौ विद्याधरौ बभूवतुः, तत्र ॥१॥ “अभिमानेन य वाली दाऊणियरस्स तं नियं रज्जं । सिद्धो कयपव्वजो सुग्गीवो कुणइ पुण रज्जं ।।" तस्य भार्याताराभिधानाबभूव, ततः कश्चित्खेचराधिपः साहसगत्यभिधानः तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश, तया च चिह्नः प्रत्यभिज्ञाय निवेदितौ जम्बुवदादिमन्त्रिमण्डलस्य, तच्च सुग्रीवद्वयमुपलभ्य किमिदमाश्चर्यमिति विस्मयं जगाम, ततश्च॥१॥ “निद्धाडिया य दोनिवि पुराउ ते मंतिवग्गवयणेण । जुझंति मच्छरेण य चलितो न एस अलियसुग्गीवो ॥" । ततश्चासौ सत्यसुग्रीवो हनुमदभिधानस्य महाविद्याधरराजस्य गत्वा निवेदयति स्म, स त्वागत्य तयोर्विशेषमजानन्नकृतोपकार एव स्वपुरमगमत्, ततश्च लक्ष्मणविनाशितखरदूषण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy