SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४३३ द्वारं-१, अध्ययनं-४, अथवा बलदेवादीनेव नामान्तरेणाह- 'रामकेसव'त्ति नामान्तरेण रामकेशवाः, अथ कीशास्ते इत्याह-भ्रातरौद्वन्द्वापेक्षयासपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौआदीयेषांतेवसुदेवसमुद्रविजयादिकास्तेचतेदशाश्चेिति समासस्तेषां हृदयदयिता इति योगः, एषां च समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च ॥१॥ “समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा ॥' अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् ॥" इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषघौल्मुककसारणगजसुमुखदुर्मुखादीनां यदोरपत्यानां अध्युष्टानामपि-अर्द्धाधिकतिसृणामपि कुमारकोटीनां हृदयदयिता-वल्लभाः, इदं चान्तिमबलदेवाद्याश्रितमपि विशेषणं समुदायविशेषणतया अवसेयं, तथा 'राजताः सौवर्णाश्च कुलपर्वता भवन्ती'त्यत्र सौवर्णा इति मेरुविशेषणमपि पर्वतानां, एवमुत्तरत्रापीति, तथा देव्या रोहिण्या-राममातुर्देव्या देवक्याश्च-कृष्णमातुःआनन्दलक्षणो यो हृदयभावस्तस्य नन्दनकरावृद्धिकरा ये ते तथा, षोडशराजवरसहानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हदयदयिता-वल्लभा येते तथा, इदंचविशेषणं वासुदेवापेक्षमेव, तथा नानामणिकनकरत्नमौक्तिप्रवालधनधान्यानां ये सञ्चयास्तल्लक्षणा या ऋद्धिः-लक्ष्मीस्तया समृद्धो-वृद्धिमुपगतः कोशःभाण्डागारंयेषांतेतथा, तत्रमणयः-चन्द्रकान्ताद्याः रत्नानि कर्केतानादीनिप्रवालानि-विद्रुमाणि धनं-गणिमादि चतुर्विधमिति, तथा हयगजरथसहस्वामिन इति प्रतीतं, ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहानां व्याख्यातरूपाणांसहस्राणि यत्र भरताद्धे स्तिमितनिवृत्तप्रमुदितजनाः-स्थिरस्वस्थप्रमोदवल्लोका विविधशस्यैः-नानाविधधान्यैर्निष्पद्यमाना-जायमाना मेदिनीच-भूमिर्यत्रसरोभिः-जलाशयविशेषैः सरिद्भिश्च-नदीभिः तडागैः-प्रतीतैः शैलैः-गिरिभिः काननैः-सामान्यवृक्षोपेतनगरासन्नवनविशेषैः आरामैःदम्पतिरतिस्थान लतागृहोपेतवनविशेषैः उद्यानैश्चपुष्पादिमवृक्षसङ्कुलबहुजनभोग्यवनविशेषैः मनोऽभिरामैः परिमण्डितंच यद्मरतार्द्ध तत्तथा तस्य, तथा दक्षिणार्द्धच तद्विजयागिरिविभक्तं चेति विग्रहस्तस्य, तथा लवणजलेन-लवणसमुद्रेण परिगतं-वेष्टितं देशतो यत्तत्तथा तस्य, तथा षड़िवघस्य कालस्य-ऋतुषटकपस्य ये गुणाः-कार्याणि तैः क्रमेण-परिपाट्या युक्तं-सङ्गतं यत्तत्तथा तस्य, कस्येत्याह-अर्द्धभरतस्य भरतार्द्धस्य, किं? -स्वामिका-नाथाः,तथा धीराणां सतां या कीर्तिस्तप्रधाना : पुरुषा धीरकीर्तिपुरुषाः ओधेन-प्रवलाहेणाविच्छिन्नं बलं-प्राणो येषांतेतथा, पुरुषान्तरबलान्यतिक्रान्ताअतिबलाः, ननिहताअनिहताअपराजितान्-अपरिभूतान् शत्रूनुमर्दयन्तियेतेतथा, अतएव रिपुसहमानमथनाइतिव्यक्तं, सानुक्रोशाः-सदयाअमत्सरिणः-.. परगुणग्राहिणः अचपलाः-कायिकादिचापल्यरहिताःअचण्डाः-कारणविकलकोपविकलाःमितः -परिमितो मझुलो-मधुरः प्रलापो-जल्पो येषां ते तथा, हसितं गम्भीरमनट्टहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, ‘सरण्ण'त्ति शरणदायकत्वात् शरण्याः, तथा लक्षण-पुरुषलक्षणशास्त्राभिहितं यथा ॥१॥ “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । 7 28] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy