________________
द्वारं - 9, अध्ययनं - ३,
प्रेरिता उपर्युपरि - निरन्तरं तरङ्गाः - कल्लोलास्तेषां 'रिय' त्ति प्त इव अतिवेगः - अतिक्रान्ताशेषवेगो यो वेगस्तेन लुप्ततृतीयेकवचनदर्शनाच्चक्षुःपथं दृष्टिमार्गमास्तृण्वन्तं - आच्छादयन्तं 'कत्थइ' त्ति क्वचिद्देशे गम्भीरं विपुलं गर्जितं - मेघस्येव ध्वनिः गुञ्जितं च गुञ्जलक्षणातोद्यस्येव निर्धातश्च - गगने व्यन्तरकृतो महाध्वनि; गुरुकनिपतितं च-विद्युदादिगुरुकद्रव्यनिपातजनितध्वनिर्यत्र स तथा, सुदीर्घनिर्ह्रादी– अहस्वप्रतिरवो 'दूरसुव्वंत' त्ति दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथं प्रतिमार्गं 'संभंत' त्ति रुन्धानाः सञ्चरिष्णूनां मार्गं स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचाः - व्यन्तरविशेषास्तेषां यत्प्रतिगर्ज्जितं उपसर्गसहस्राणि च पाठान्तरेण 'रुसियतज्जायउवसग्गसहस्स' त्ति तत्र यक्षादयश्च रुषितास्तज्जातोपसर्गसहाणि च तैः सङ्कुलो यः स तथा तं, बहूनि उत्पातिकानि - उत्पातान् भूतः - प्राप्तो यः स तथा तं -
वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधारयोऽतस्तं, तथा विरचितो बलिना - उपहारेण होमेन - अग्निकारिकया धूपेन च उपचारो - देवतापूजा यैस्ते तथा, तथा दत्तं-वितीर्णं रुधिरं यत्र तत्तथा तच्च तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता ये तथा तथा योगेषु - प्रवहणोचितव्यापारेषु प्रयता ये ते तथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते, चरितः - सेवितो यः स तथा तं पर्यन्तयुगस्य - कलियुगस्य योऽन्तकालः–क्षयकालस्तेन कल्पा- कल्पनीया उपमा रौद्रत्वाद्यस्य स तता तं,
४११
दुरन्तं - दुरवसानं महानदीनां - गङ्गादीनां नदीनांच - इतरासां पतिः - प्रभुः स तथा महाभीमो शयते यः स तता ततः कर्म्मधारयोऽतस्तं दुःखेनानुचर्यते - सेव्यते यः स तथा तं, विषमप्रवेशं दुःखोत्तारमिति च प्रतीतं दुःखेनाश्रीयत इति दुराश्रयस्तं लवणसलिलपूर्णमिति व्यक्तं, असिताःकृष्णाः सिताः - सितपटाः समुच्छ्रतका उद्धकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः, चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते,
दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहिं' ति सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः, वहनैः - प्रवहणैः अतिपत्य - पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये घ्नन्ति गत्वा जनस्य - सांयात्रिकलोकस्य पोतान् यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा - निःशूकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा - निःशूकास्ते 'निरवयक्ख' त्ति परलोकं प्रति निरवकाङ्क्ष-निरपेक्षाः, ग्रामो - जनपदाश्रितः सन्निवेशविशषः आकरो- लवणाद्युत्पत्तिस्थानं नकरं - अकरदायिलोकं खेटं- धूलीप्राकारं कर्बटं-कुनगरं मडम्बं-सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं- जलस्थलपथोपेतं पत्तनं - जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रमः - तापसादिनिवासः निगमो - वणिग्जननिवासो जनपदो -देश इति द्वन्द्वो ऽतस्तांश्च धनसमृद्धान् ध्नन्ति, तथा स्थिरहदयाः- तत्रार्थे निश्चलचित्ताः छिन्नलज्जाश्च ये ते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः,
तथा दारुणमतयः निष्कृपा निजं ध्नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतंनिक्षिप्तानि च-स्वस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि - धनधान्यरूपद्रव्यप्रकारान्, केषामित्याहजनपदकुलानां - लोकगृहाणां निर्घृणमतयः परस्य द्रव्याद् येऽविरताः, तथा तथैव - पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्णं द्रव्यं गवेषयन्तः कालाकालयोः सञ्चरणस्योचितानुचितरूपयोः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org