________________
४१०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५
सामान्यजनस्येति गम्यं अतिपतन्ति-प्रविशन्ति सङ्ग्रामसङ्कटं-सङ्ग्रामगहनं परधनं-परद्रव्यं 'महंत'त्तिइच्छन्त इति, तथाऽपरे-राजभ्योऽन्ये पाइक्कचोरसंघाः-पदातिरूपचौरसमूहाः, तथा सेनापतयः, किंस्वरूपाः?-चौरवृन्दप्रकर्षकाश्च तत्प्रवर्तका इत्यतः, अटवीदेशे यानि दुर्गाणिजलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, कालहरितरक्तपीतशुक्लाः पञ्चवर्णा इतियावत् अनेकशतसङ्ख्याश्चिह्णपट्टा बद्धा यैस्ते तता परविषयानभिध्नन्ति, लुब्धा इति व्यक्तं, धनस्य कार्ये धनकृते इत्यर्थः, तथा रलाकरभूतोयः सागरःसतथातंचातिपत्याभिनन्तिजनस्य पोतानिति सम्बन्धः,
उर्मयोवीचयस्तत्सहस्राणां मालाः-पङ्कतयस्तभिराकुलोयः सतथा, आकुला-जलाभावेन व्याकुलितचित्ताये वितोयपोताः-विगतजलयानपात्राः सांयात्रिकाः ‘कलकलिंत'त्ति कलकलायमानाः-कोलाहलबोलं कुर्वाणास्तैःकलितो यः स तथा, अनेनास्यापेयजलत्वमुक्तं, अथवा उर्मिसहस्रमालाभिः आकुलाकुलः-अतिव्याकुलो यः स तथा, तथा वियोगपोतैः-विगतसम्बन्धनबोधिस्थैः कलकलं कुर्वद्भिः कलितो यः स तथा ततः कर्मधारयोऽतस्तं, तथा पातालाःपातालकलशास्तेषां यानि सहाम्रणि तैतिशाद्वेगेन यत्सलिलं-जलधिजलं 'उद्धममाणं'ति य उत्पाचट्यमानं तस्य यदुदकरजः-तोयरेणुस्तदेव रजोऽनधकारं-धूलीतमो यत्र स तथा तं,
वरः फेनो-डिण्डीरः प्रचुरोधवलः 'पुलंपुल त्तिअनवरतंयः समुत्थितो जातः स एवाट्टहासो यत्र वरफेन एव वा प्रचुरादिविशेषणोऽट्टहासो यत्र सतथा तं, मारुतेन विक्षोभ्यमाणं पानीयं यत्र सतथा, जलमालानांजलकल्लोलानामुत्पीलः-समूहो ‘हुलिय'त्तिशीघ्रो यत्रसतथा ततः कर्मधारयोऽतस्तं, अपिचेति समुच्चये, तथा समन्ततः-सर्वचः क्षुभितं-वायुप्रभृतिभिव्याकुलितं लुलितं-तीरभुविलुठितं ‘खोखुब्भमाण'त्ति महामत्स्यादिभिभृशं व्याकुलीक्रियमाणंप्रस्खलितंनिर्गच्छत्पर्वतादिना स्खलितं चलितं-स्वस्थानगमनप्रवृत्तं विपुलं-विस्तीर्ण जलचक्रवालंतोयमण्डलं यत्र स तथा, महानदीवेगैः-गङ्गानिन्मागाजवैः त्वरितं यथा भवतीत्येवमापूर्यमाणो यःस तथा गम्भीरा-अलब्धमध्याः विपुला-विस्तीर्णाश्च ये आवर्ता जलभ्रमणस्थानरूपाः तेषु चपलंयथा भवतीत्येवंभ्रमन्ति-सञ्चरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छलन्ति-उत्पतन्ति उच्चलन्ति वा-ऊर्द्धमुखानि चलन्ति प्रत्यवनिवृत्तानि वा-अधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा अथवा जलचक्रवालान्तं नदीनां विशेषणमापूर्यमाणान्तं चावर्तानामिति,
तथा प्रधाविताः-वेगितगतयः खरपरुषाः-अतिकर्कशाः प्रचण्डाः-रौद्राः व्याकुलितसलिलाः-विलोलितजलाः स्फुटन्तो-विदीर्यमाणा ये वीचिरूपाः कल्लोलान तुवायुरूपास्तैः सङ्कुलो यःसतथा ततः कर्मधारयोऽतस्तं, तथा महामकरमत्यस्यकच्छपाश्च ओहार'त्तिजलजन्तुविशेषास्ते च ग्राहतिमिसुंसुमाराश्चश्वापदाश्चेति द्वन्द्वस्तेषांसमाहताश्च-परस्परेणोपहताः समुद्धायमाणक'त्ति उद्धावन्तश्च-प्रहाराय समुत्तिष्ठन्तोये पूराः-सङ्घाःघोरा-रौद्रास्ते प्रचुरायत्रस तथातं, कातरनरहृदयकम्पनमिति प्रतीतं, घोरं--रौद्रं यथा भवतीत्येवमारसन्तं-शब्दायमानं महाभयादीन्येकानि 'अनोरपारं'तिअनर्वाक्यपारमिव महत्त्वादनक्पिारंआकाशमिव निरालम्बं, न हि तत्रपतद्भिः किञ्चिदालम्बनमवाप्यत इति भावः,
औत्पातिकपवनेन-उत्पातजनितवायुना 'धणिय'त्ति अत्यर्थं ये ‘नोल्लिय'त्ति नोदिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org