SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३८६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ - ___ एतच्च सुधर्मस्वामी जम्बूस्वामिनः स्ववचसि सर्वज्ञवचनाश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थं तथा स्वस्य गुरुपरतन्त्रताविष्करणार्थं विनेयानां चैतन्यायप्रदर्शनार्थमाख्यातवानिति। अधर्मद्वारे - अध्ययनं - १ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणगसूत्रे प्रथम अधर्मदार अभयदेवसूरि विरचिता टीका परिसमाप्ता। -अध्ययनं-२ - मृषावादः:वृ. व्याख्यातं प्रथममध्ययनं, अथ द्वितीयमारभ्यते, अस्य चायमभिसम्बनअधः-पूर्वं स्वरूपादिभिः प्राणातिपातः प्रथमाश्रवद्वारभूतः प्ररूपितः, इह तु सूत्रक्रमप्रामाण्याद् द्वितीयश्रवद्वारभूतो मृषावादस्तथैव प्ररूप्यते, इत्येवंसम्बन्धस्यास्याध्ययनस्येदमादिसूत्रम् मू. (९) जंबू बितियं च अलियवयणं लहुसगलहुचवलभणियं भयंकरंदुहकरं अयसकरं वेरकरगंअरतिरतिरागदोसमणसंकिलेसवियरणंअलियनियडिसातिजोयबहुलं नीयजणनिसेवियं निस्संसंअप्पच्चयकारकं परमसाहुगरहणिजंपरपीलाकारकं परमकिण्हलेस्ससहियंदग्गइविणिवायवड्डणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्तियं बितितं अधम्मदारं । वृ. 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इदमपिपञ्चभिर्यादशकादिद्वारैः प्रलप्यते, तत्रयादशमिति द्वारमाश्रित्यालीकवचनस्य स्वरूपमाह-लघुः-गुणगौरवरहितः स्वः-आत्मा विद्यतेयेषांतेलघुस्वकास्तेभ्योऽपि येलघवस्ते लघुस्वकलधवस्तेच तेचपलाच कायादिभिरिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्गरंदुःखकरमयशःकरंवैरकरंयत्तत्तथा, अरतिरतिरागद्वेषलक्षणंमनःसङ्कलेशं वितरति यत्तत्तथा, अलिकः-शुभफलापेक्षया निष्फलोयो निकृतेः-वाचनप्रच्छादनार्थं वचनस्य ‘साइ'त्ति अविश्रम्भस्य च अविश्वासवनचस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तथा, नीचैः-जात्यावदिहीनैर्जनैः प्राय इदं निषेवितं-कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितंअप्रत्ययकारकं-विश्वासविनाशकरं, इतः पदचतुष्टयंकण्ठ्यं, तथा भवे-संसरे पुनर्भवं-पुनः२ जन्म करोतीति पुनर्भवकरं चिरपरिचितं-अनादिसंसाराभ्यस्तंअनुगतं-अविच्छेदेनानुवृत्तंदुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन याहेश इत्युक्तं १ । म. (१०) तस्स य नामाणि गोण्णाणि होति तीसं, तंजहा-अलियं १ सढं २ अणजं २ मायामोसो ४ असंतकं ५ कूडकवडमवत्थुगं च ६ निरत्थयमवत्थयं च ७ विद्देसगरहणिज्जं ८ अणुजुकं ९ कक्कणाय १० वंचणाय ११ मिच्छापच्छाकडंच १२ साती उ १३ उच्छन्नं १४ उक्कूलंच १५ ___अटुं१६ अब्भक्खाणंच १७किब्बिसं १८ वलयं १९ गहणंच २० मम्मणं२१ नूमं २२ निययी २३ अप्पच्चओ २४ असमओ २५ असच्चसंघत्तणं २६ विवक्खो २७ अवहीयं २८ उवहिअसुद्धं २९ अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नाधेजाणि होति तीसंसावजस्स अलियस्स वइजोगस्स अनेगाई। वृ. अथ यन्नामेत्यभिधातुकाम आह- ‘तस्से' त्यादि सुगमं, यावत्तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy