________________
३८४
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८
भ्रमन्तीतिभेदेनाह- पत्त्ये त्यादि, 'तत्थवित्तितत्रापिएकेन्द्रियत्वे प्रत्येकशरीरेजीवितं-प्राणधारणं येषां ते प्रत्येकशरीरजीवितास्तेषु-पृथिव्यादिषु चका रउत्तरवाक्यापेक्षया समुच्चयार्थ;,कालमसङ्ख्यातं भ्रमन्ति, अनन्तकालं चानन्तकाये साधारणशरीरेष्वित्यर्थः, आह च॥१॥ "अस्संखोसप्पिणिउस्सप्पिणी एगिदियाणय चउण्हं ।
ताचेव ऊ अणंता वणस्सईए उ बोद्धव्वा ॥” इति, किम्भूतास्ते ?-स्पर्शेन्द्रियस्य भावेन-परिणामेन सत्तया वा सम्प्रयुक्ता ये ते तथा, दुःखसमुदयमिदं वक्ष्यमाणमनिष्टं प्राप्नुवन्ति, पुनः २ तत्रैव २ एकन्द्रियत्वे इत्यर्थः, किम्भूते?परः-प्रकृष्टः सर्वोत्कृष्टकायस्तितिकत्वाद्भव-उत्पत्तिस्थानं तरुगणगणो-वृक्षगुच्छादिवृन्दसमूहो यत्रैकेन्द्रियत्वे पाठान्तरेतुपरभवतरुगणैर्गहनंयत्तत्तथा, तत्र दुःखसमुदयमेवाह-कुद्दालो-भूखनित्रं कुलिकं हलविशेषस्ताभ्यां ‘दालनं'ति विदारणंयत्तत्तथा, एतत्पृथिवीवनस्पत्योर्दुःखकारणमुक्तं, सलिलस्यमलनंचमद्देनं 'भणं तिक्षोभणंच रुंभणं'तिरोधनंच सिललमलनश्रोभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तं, अनलानिलयोः-अग्निवातयोर्विविधैः शस्त्रैः स्वकायपरकायभेदैःयत् घट्टनं-सङ्घट्टनं तत्तथा, अनेन च तेजोवाय्वोर्दुःखमुक्तं, परस्पराभिहननेन यन्मारणंच प्रतीतंविराधनं परितापनंतेतथाततोद्वन्द्वोऽतस्तानिचदुःखानि भवन्तीतिगम्यं, तानि किम्भूतानि -अकाम- कानि- अनभिलषणीयानि, एतदेव विशेषेणाह-परप्रयोगोदीरणाभिः-स्वव्यतिरिक्तजनव्यापार- दुःखोत्पादनाभिनिष्प्रयोजनाभिरिति हदयं, कार्यै; प्रयोजनैश्च-अवश्यकरणीयप्रयोजनैः, किम्भूतैः ? -
प्रेष्यपशुनिमित्तकर्मकरगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तंचयान्यौषधाहारादीनितानि तथा तैरुत्खननं-उत्पाटनं उत्कतथं-त्वचोऽपनयनंपचनंपाकः कुट्टनं-चूर्णनं प्रेषणं-घरट्टादिना दलनं पिट्टनं-ताडनं भर्जनं भ्राष्ट्रपचनं गालनं-छाणनं आमोटनं-ईषदभञ्जनं शटनं-स्वत एव विशरणं स्फुटनं-स्वत एव द्विधाभावगमनं भञ्जनं-आमईनं छदनं-प्रतीतं तक्षणं-काष्ठादेरिव वास्यादिना विलुज्टनं-लोमाद्यपनयनपत्रज्झोडनं-तरुप्रान्तपल्लवफलादिपातनं अग्निदहनंप्रतीतं, एतान्यादिर्येषां तानिदुःखान्येकेन्द्रियाणां भवन्तीति गम्यं, तथा एकेन्द्रियाधिकारंनिगमयन्नाहएवम्-उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद् दुःखं तत्समनुबद्धं-अविच्छिन्नं येषां ते तता अटन्तिसंसारे एव 'बीहणकरे'त्ति भयङ्करः तत्रजीवाः प्राणातिपातनिरताअनन्तंकालं यावदिति
___ अथ प्राणातिपातकारिणो नरकादुवृता मनुष्यगतिगता याशा भवन्ति तथोच्यते'जेऽविये' त्यादि येऽपिचेह मत्यलोके मानुषत्वमागताः-प्राप्ताः कथञ्चित कृच्छ्रादित्यर्थो नरकादुद्धताः अधन्यास्तेऽपिच दृश्यन्ते प्रायशः-प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिव्य-भिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपञ्चयन्नाह-कुब्जाः-वक्रजङ्घाः वटभाश्च- वक्रोपरिकाया वामनाश्च-कालानौचित्येनातिहस्वदेहा बधिराः प्रतीताः काणाःदीपकाणाः फरला इत्यर्थः, कुण्टाश्च-विकृतहस्ताः पङ्गुलाः-गमनासमर्थजङ्घाः विकलाश्च-अपरिपूर्णगात्राः मूकाश्च-वचनासमर्थाः पङ्गुलाः ‘अवियजलमय'त्ति पाठान्तरंतत्र अपिचेति समुच्चये जलमूकाः-- जलप्रविष्टस्येव 'बुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च-येषां जल्पतां स्खलति वाणी 'अंधिल्लग'त्तिअन्धाः एकंचक्षुर्विनिहतं येषांतेएकचक्षुर्विनिहताः सचिल्लय'त्तिसर्वापचक्षुषः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org