SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८२ उपासकदशाङ्गसूत्रम् २/२१ महद्माजनंतद्गोकिलशं यदुच्यते तस्याधोमुखीकृतस्य यत्संस्थानं तेनसंस्थितं, तदाकारमित्यर्थः, पुस्ताकान्तरे विशेषणान्तरमुपलभ्यते 'विगयकप्पयनिभं'ति विकृतो योऽलञ्जरादीनां कल्प एव कल्पकः- खण्डं कर्परमिति तात्पर्यं, तन्निभं तत्सदशमिति, क्वचित्तु 'वियहकोप्परनिभं' ति दृश्यते, तच्चोपदेशगम्यं, 'सालिभसेल्लसरिसा' व्रीहिकणिशशूकसमाः, 'से' तस्या केसा' वालाः, एतदेव व्यनक्ति-'कविलतेएणं दिप्पमाणा' पिङ्गलदीप्तया रोचमानाः 'उट्टियाकभल्लसंठाणसंठियं उष्ट्रिका-मृण्मयोमहाभाजनविशेषस्तस्याः कभल्लं-कपालं तस्य यत्संस्थानं तत्संस्थितं, 'निडालं' ति ललाटं, पाठान्तरे ‘महल्लउट्टियाकभल्लसरिसोवमे' महोष्ट्रिकायाकभल्लसदशमित्येवमुल्लेखेनोपमा-उपमानवाक्यं यत्र तत्तथा, 'मुगुंसपुंछं व' भुजपरिसर्पविशिषो मुगुंसा साच खाडहिल्लत्ति सम्भाव्यते, तत्पुच्छवत्, 'तस्येति पिशाचरूपस्य 'भुमगाओ'त्ति भ्रुवौ, प्रस्तुतोपमार्थमेव व्यनक्ति_ 'फुग्गफुग्गाओ' त्ति परस्परासम्बद्धरोमिके विकीर्णविकीर्णरोमिके इत्यर्थः, पुस्तकान्तरे तु 'जडिलकुडिलाओ'त्ति प्रतीतं 'विगयबीभच्छदसणाओ' त्ति विकृतं बीभत्सं च दर्शनं-रूपं ययोस्ते तथा, 'सीसघडिविणिग्गयाणि' शीर्षमेव घटी तदाकारत्वात् शीर्षघटी तम्या विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवस्तितत्वात् 'अक्षिणी' लोचने, विकृतबीभत्सदर्शने प्रतीतं, कर्णी-श्रवणौ यथाशूर्पकर्तरमेव-शूर्पखण्डमेवनान्यथाकारौ, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव उरब्म-पुडसन्निभा' उरभ्रः-ऊरणस्तस्यपुटं-नासापुटंतत्सन्निभा-तत्सशीनासा-नासिका, पाठान्तरेण-'हुरब्मपुडसंठाणसंठिया' तत्र हुरब्धा-वाद्यविशेषस्तस्याः पुट-पुष्करंतत्संस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः ‘झुसिर' त्तिमहारन्ध्रा जमलचुल्लीसंठाणसंठिया' यमलयोःसमस्थितद्वयरूपयोः चुपल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे-नासिकाविवरे, वाचनान्तरे 'महल्लकुब्बसंठिया दोऽवि से कवोला' तत्र क्षीणमांसत्वादुननतास्थित्वाच्च 'कुब्बति निम्नं क्षाममित्यर्थः, तत्संस्थितौ द्वावपि 'से' तस्य ‘कपोलौ' गण्डौ तता 'घोडय'त्ति घोटकपुच्छवद्-अश्ववालधिवत्तस्य-पिशाचरूपस्य श्मश्रूणि' कूर्चकेशाः, तथा 'कपिलकापिलानि' अतिकडाराणि, विकृतानीत्यादितथैव, पाठान्तरेणघोडयपुंछंवतस्स कविलफरुसाओ उद्धलोमाओ दाढियाओ' तत्र परुषे-कर्कशस्पर्शे ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिकेउत्तरौष्ठरोमाणि, 'ओष्ठौ' दशनच्छदौउष्ट्रस्येव लम्बौ-प्रलम्बमानौ, पाठान्तरेण उट्ठासेघोडगस्सजहादोऽविलम्बमाणा' तथाफाला-लोहमयकुशाः तत्सध्शा दीर्घत्वात् ‘से' तस्य ‘दन्ता' दशनाः, जिह्वा यथा शूर्पकर्तरमेव, नान्यथाकारा, विकृतेत्यादि तदेव, पाठान्तरे 'हिङ्गुलुयद्याउकन्दरबिलं व तस्स वयणं' इति दृश्यते, तत्र हिङ्गुलुको-वर्णद्रव्यं तद्रूपो धातुर्यत्रतत्तथाविधंयत्कन्दरबिलं-गुहालक्षणंरन्ध्रतदिवतस्यवदनं, हलकुद्दालं हलस्योपरितनो भागः तत्संस्थिते तदाकारे अतिवक्रदीर्धे से तस्य ‘हणुय' त्तिदंष्ट्राविशेषौ, ‘गल्लकडिल्लंचतस्स' त्ति गल् एव-कपोल एव कडिल्लं-मण्डकादिपचनभाजनं गल्लकडिल्लं, चः समुच्चये, 'तस्य;' पिशाचरूपस्य 'खडु'त्तिगर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुटुं' ति विदीर्णं, अनेनैव साधम्येण कडिल्लमित्युपमानं कृतं, 'कविलं' तिवर्णतः फरुसं' ति स्पर्शतः ‘महल्लं' ति बहत्, तथा मृदङ्गाकारेण-मर्दलाकृत्या उषमा यस्य स मृदङ्गाकारोपमः “से' तस्य स्कन्धः-अंशदेशः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy