________________
२६०
॥३॥
11811
॥५॥
॥ ६ ॥
॥७॥
11211
॥९॥
1190 11
11 99 11
॥ १२ ॥
परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादशजनैस्ततः शास्त्रार्थे मे वचनमनधं दुर्लभमिह ॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः प्रयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥ तथापि माऽस्तु मे पापं सङ्घमत्युपजीवनात् । वृद्धान्यासानुसारिखाद्धितार्थं च प्रवृत्तितः ॥ तथाहि - किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो निःसम्बन्धविहारमप्रतिहतशास्त्रानुसारात्तथा ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ निर्वृतककुलनभस्तलचन्द्रदोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवप्रियेण संशोधिता चेयम् ॥ प्रत्यक्षरं गणनया, ग्रन्थानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीण्येवाष्टशतानि च ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥
ज्ञाताधर्मकथाङ्ग सूत्रम्--------
६ षष्ठं अङ्गसूत्रं ज्ञाताधर्मकथा - समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । ***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org