SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ भगवतीअङ्गसूत्रं (२) १२/-/१/५३१ लयन्तः ‘विहरिष्यामः' स्थास्यामः, यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्त्तमानिकप्रत्ययोपादानं तद्भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थं, एवमुत्तरत्रापि गमनिका कार्येत्येके । अन्ये तु व्याचक्षते - इह किल पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधा - इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपंच, तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन यदुक्तवांस्तद्दर्शयतेमुक्तं- 'तणं अम्हे तं विउलं असणपाणखाइमसाइं अस्साएमामे' इत्यादि, पुनश्च शङ्ख एव संवेगविशे, वशादाद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यच्चिन्तितवांस्तद्दर्शतेदमुक्तम् 'नो खलु मे सेयं त' मित्यादि, एगस्स अबिइयरस' त्ति 'एकस्य' बाह्यसहायापेक्षया केवलस्य 'अद्वितीयस्य' तथाविधक्रोधादिसहायापेक्षया केवलस्यैव, न चैकस्येति भणनादेकाकिन एव पौषधशालायां पौषधं कर्त्तुं कल्पत इत्यवधारणीयं, एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रवणाद्दोषाभावात्पस्परेण स्मरणादिविशिष्टगुणसम्भवाच्चेति गमणागमणाए पडिक्क मइ'त्ति ईर्यापथिकी प्रतिक्रमतीत्यर्थः, 'छंदेणं' ति स्वाभिप्रायेण नं तु मदीयाज्ञयेति । 'पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रश्च - रात्रेः पूर्वी भागः अपगता रात्रिरपररात्रः सच पूर्वरात्रापररात्रस्तल्लक्षणः कालसमयो यः स तथा तत्र 'धम्मजागरियं’ति धर्माय धर्मचिन्तया वा जागरिका-जागरणं धर्म्मजागरिका तां 'पारित्तएत्तिकट्टु एवं संपेहेइ' त्ति 'पारयितुं' रं नेतुम् 'एवं सम्प्रेक्षते' इत्यालोचयति, किमित्याह - 'इतिकर्तुम् एतस्यैवार्थः स्य करणायेति । ‘अभिगमो नत्थि’त्ति पञ्चप्रकारः पूर्वोक्तोऽभिगमो नास्त्यस्य, सचित्तादिद्रव्याणां विमोचनीयानामभावादिति । 'जहा पढमं 'ति यथा तेषामेव प्रथमनिर्गमस्तथा द्वितीयनिर्गमोऽपि वाच्य इत्यर्थः, 'हिज्जो' त्ति ह्यो - ह्यस्तनदिने । मू. (५३२) भंतेत्ति भगवं गोयमे समणं भ० महा० वं० न० २ एवं वयासी-कइविहाणं भंते! जागरिया पण्णत्ता ?, गोयमा ! तिविहा जागरिया पन्नत्ता तंजहा बुद्धजागरिया अबुद्धजागरिया सुदक्खुजागरिया, से केण० एवं वु० तिविहा जागरिया पण्णत्ता तंजहा - बुद्धाजा० १ अबुद्धजा० २ सुदक्खु०३ ?, गोयमा ! जे इमे अरिहंता भगवंता उप्पन्ननाणदंसणधरा जहा खंदए जाव सवन्नू सव्वदरिसी एए णं बुद्धा बुद्धजागरियं जागरंति, जे इमे अनगारा भगवंतो ईरियासमिया भासासमिया जाव गुत्तबंभचारी एए णं अबुद्धा अबुद्धजागरियं जागरंति, जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरन्ति एते णं सुदक्खुजागरियं जागरिति । से तेणट्टेणं गोयमा ! एवं बुच्चइ तिविहा जागरिया जाव सुदक्खुजागरिया । वृ. 'सुदुक्खुजागरियं जागरिए' त्ति सुटु दरिसणं जस्स सो सुदक्खू तस्स जागरियाप्रमादनिद्राव्यपोहेन जागरणं सुदक्खुजागरिया तां जागरितः कृतवानित्यर्थः, 'बुद्धा बुद्धजागरियं जागरंति' त्ति बुद्धाः केवलावबोधेन, ते च बुद्धानां - व्यपोढाज्ञाननिद्राणां जागरिका - प्रबोधो बुद्धजागरिका तां कुर्वन्ति ‘अबुद्धा अबुद्धजागरियं जागरंति' त्ति अबुद्ध्यः केवलज्ञानाभावेन यथासम्भवं शेषज्ञानसद्भावाच्च बुद्धसध्शास्ते चाबुद्धानां छद्मस्थज्ञानवतां या जागरिकासा तथा तां जाग्रति । अथ भगवन्तं शङ्खस्तेषां मनाकपरिकुपितश्रमणोपासकानां कोपोपशमनाय क्रोधादिविपाकं पृच्छन्नाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy