________________
४६०
भगवतीअङ्गसूत्रं (२) २६/-/११/९९० कर्मबन्धमाश्रित्य चतुर्थ एवघटते, यतो यश्चरमोऽसावायुर्बद्धवान्न बनाति नच भन्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य इति, अचरमो यस्तं भवंपुनः प्राप्स्यति, तत्राचरमोद्देशके पञ्चेन्द्रियतिर्यगन्तेषुपदेषुपापं काश्रित्याद्यौ भङ्गको, मनुष्याणांतु चरमभङ्गकवर्जासत्रयो, यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति
__ 'अचरिमेणंभंते! मणूसे' इत्यादि, 'वीससुपएसुत्ति, तानि चैतानि-जीव १ सलेश्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि५ ज्ञानि ६ मतिज्ञानादिचतुष्टय १० नोसंज्ञोपयुक्त ११ वेद १२ सकषाय १३ लोभकषाय १४ सयोगि १५ मनोयोग्यादित्रय १८ साकारोपयुक्ता १९नाकारोपयुक्त २० लक्षणानि, एतेषुचसामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तद्भावादिति ।
'अलेस्से'इत्यादि, अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः ।
ज्ञानावरणीयदण्डकोऽष्येवं, नवरं विशेषोऽयं-पापकर्मदण्डके सकषायलोभकषायादिष्वाद्यास्त्रयो भङ्गका उक्ताइह त्वाद्यौ द्वावे, यतएतेज्ञानावरणीयमबद्धापुनर्बन्धकान भवन्ति, कषायिणां सदैव ज्ञानावरणबन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भवतीति, 'वेयणिज्जे सव्वत्थ पढमबीय'त्ति, तृतीयचतुर्थयोरसम्भवात्, एतयोहि प्रथमः प्रागुक्तयुक्तेर्न संभवति द्वितीयस्त्वयोगित्व एव भवतीति। . आयुर्दण्डके-'अचरिमे णं भंते ! नेरइए' इत्यादि, 'पढमततिया भंग'त्ति, तत्र प्रथमः प्रतीतएव द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य हिआयुर्बन्धोऽवश्यंभविष्यत्यन्यथाऽचरमत्वमेव न स्यात्, एवं चतुर्थोऽपि, तृतीये तु न बघ्नात्यायुस्तदबन्धकाले पुनर्भन्स्यत्यचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्तव्येति। 'बंधिसयंतिप्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम्।
शतकं-२६ उद्देशकाः-४-११ समाप्ताः येषां गौरिव गौः सदर्थपयसां दात्री पवित्रात्मिका,
सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणबुधसभाग्रामाजिरं राजयेद्, ये चास्यां विवृतौ निमित्तमभवनन्दन्तु ते सूरयः ।।
शतकं-२६ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे षड्विंशतितमशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता
(शतकं-२७) वृ.व्याख्यातं षड्विंशंशतं, अथ सप्तविंशमारभ्यते,अस्य चायमभिसम्भन्धः-अनन्तरशते जीवस्यकर्मबन्धनक्रिया भूतादिकालविशेषेणोक्ता सप्तविंशशते तुजीवस्य तथाविधैव कर्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org