________________
भगवती अङ्गसूत्रं (२) २५/-/७/९६५ प्रतिपद्यते, 'चियत्तोवगरणसाइजणय'त्ति 'चियत्तस्स' त्ति लक्षणोपेततया संयतस्यैव 'साइजणय'त्ति स्वदनता परिभोजनमिति, चूय तूक्तं- 'जं वत्थाइ धारेइ तंमिवि ममत्तं नत्थि, जइ कोइ मग्गइ तस्स देइ 'ति ।
'अप्पकोहे' त्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति 'अप्पसद्दे' त्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् 'अप्पझंझे' त्ति इह झञ्झा विप्रकीकोपविशेषाद्वचनपद्धत्तिः, चूयतूक्तं- 'झंझा अनत्थयबहुप्पलावितं' 'अप्पतुभंतुमे' त्ति तुमन्तुमो- हृदयस्थः कोपविशेष एव
४४४
'दव्वाभिग्गचरए' त्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाद्रव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइए 'त्ति, अनेनेदं सूचितं 'खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिए 'त्ति शुद्धैषणाशङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिए 'त्ति सङ्ख्याप्रधानाः पञ्चषादयो दत्तयोभिक्षाविशेषा यस्य स तथा, 'जहा उववाइए' त्ति अनेनेदं सूचितम् -'आयंबिलिए आयामसित्यभोई अरसाहारे' इत्यादि ।
'ठाणाइए 'त्ति स्थानं - कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगोवा, 'जहा उववाइए 'त्ति, अनेनेदं सूचितं- 'पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः - मासिक्यादयः, वीरासनं च-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनेऽपनीते याध्शमवस्थानं, निषद्या च - पुताभ्यां भूमावुपवेशनं, 'सोइंदियविसयप्पयारनिरोहोव 'त्ति श्रोत्रेन्द्रियस्य यो विषयेषु - इष्टानिष्टशब्देषु प्रचारः - श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो - निषेधः स तथा शब्दानां श्रवणवर्जनमित्यर्थः 'सोइंदियविसए' इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषुच 'अर्थेषु' इष्टानिष्टशब्देषु रागद्वेषविनिग्रहो - रागद्वेषनिरोधः ।
'मणस्स वा एगत्तीभावकरणं' मनसो वा 'एगत्त' त्ति विशिष्टैकाग्रत्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणं, आत्मना वा सह यैकता - निरालम्बनत्वं तद्रूपो भावस्तस्य करणं यत्तत्तथा ‘वईए वा एगत्तीभावकरणं’ति वाचो वा विशिष्टैकाग्रत्वनैकतारूपभावकरणमिति 'सुसमाहियपसंतसाहरियपाणिपाए’त्ति सुष्ठु समाहितः - समाधिप्राप्तो बहिर्वृत्या स चासौ प्रशान्तश्चान्तर्वृत्या यः स तथा संहृतं - अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः कर्म्मधारयः कुम्मो इव गुत्तिंदिए' ति गुप्तेन्द्रियो गुप्त इत्यर्थः क इव ? कूर्म्म इव, कस्यामवस्थायामित्यत एवाह- 'अल्लीणे पल्लीणे' त्ति आलीनः - ईषल्लीनः पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्म्मधारः, 'सोमिलुद्देसए' ति अष्टादशशतस्य दशमोद्देशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् । 'पायच्छित्ते' त्ति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते, 'वेयावच्चं 'ति वैयावृत्यं - भक्तपाना-दिभिरुपष्टम्भः ।
'नाणविनए 'त्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्तिबहुमानतदष्टार्थभावनाविधिग्रहणाभ्यासरूपः ‘दंसनविणए' त्ति दर्शनविनयः - सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः ‘चरित्त विनए’त्ति सामायिकादिचारित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयारविनए 'त्ति लोकानामुपचारो - व्यवहारः पूजा वा तद्रूपो यो विनयः स तथा 'सुस्सूसणाविनए 'त्ति शुश्रूषणा - सेवा सैव विनयः शुश्रूषणाविनयः ‘अनच्चासायणाविनए' त्ति अत्याशातना - आशातना तन्निषेधरूपो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International