________________
शतकं-२५, वर्गः-, उद्देशकः-६
उक्कोसे० देसूणा पुव्वकोडी २० ।
वृ. परिणामद्वारे - 'वड्ढमाणपरिणामे' इत्यादि, तत्र च वर्द्धमानः - शुद्धेरुत्कर्षं गच्छन् हीयमानस्त्वपकर्षं गच्छन् अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात्, स्नातकस्तु हानिकारणाभावान्न हीयमानपरिणामः स्यादिति परिणामाधिकारादेवेदमाह - 'पुलाएण' मित्यादि, तत्र पुलाकोवर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैकं समयमिति 'उक्कोसेणं अंतोमुहुत्तं ति एतस्त्वभावत्वाद्वर्द्धमानपरिणामस्येति ।
४२१
एवं कुशप्रति सेवाकुशीलकषायकुशीलेष्वपि, नवरं बकुशादीनां जघन्यत एकसमयता रणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात्, स हि मरणकाले कषायकुशीलत्वादिना परिणमति, यच्च प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निग्रनथो जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यात्, केवलज्ञानोत्पत्ती परिणामान्तरभावात्, अवस्थितपरिणामः पुनर्निर्ग्रन्थस्य जघन्यत एकं समयं मरणात्स्यादिति ।
‘सिणाए णं भंते!' इत्यादि, स्नातको जघन्येतराभ्यामन्तर्मुहूर्त वर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात्, अवस्थितपरिणामकालोऽपि जघन्यतस्तस्यान्तर्मुहूर्त्त, कथम् ?, उच्यते, यः स केवलज्ञातोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशीं प्रतिपद्यते तदपेक्षयेति, 'उक्कोसेणं देसूणा पुव्वकोडी' त्ति पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामः शैलेशीं यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति ॥ बन्धद्वारे
मू. (९२१) पुलाए णं भंते! कति कम्मपगडीओ बंधति ?, गोयमा ! आउयवज्जाओ सत्त कम्पप्पगडीओ बंधति ।
बउसे पुच्छा, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, एवं पडिसेवणाकुसीलेवि ।
कसायकुसीले पुच्छा, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधइ, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, छबंधमाणे आउयमोहणिज्जवज्जाओ छक्कम्मप्पगडीओ बंधइ । नियंठे णं पुच्छा, गोयमा ! एगं वेयणिज्जं कम्मं बंधइ ।
सिणाए पुच्छा, गोयमा ! एगविहबंधए वा अबंधए वा, एगं बंधमाणे एगं वेयणिज्जं कम्मं बंधइ २१ ।
वृ. 'आउयवज्जाओ'त्ति पुलाकस्यायुर्बन्धो नास्ति, तद्बन्ध्याध्यवसायस्थानानां तस्याभावादिति।‘बउसे’इत्यादि, त्रिभागाद्यवशेषायुषो हि जीवा आयुर्बघ्नन्तीति त्रिभागद्वयादौ तन्त्र बघ्नन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्म्मणां बन्धका भवन्तीति, 'छव्विहं बंधेमाणा' इत्यादि ।
कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुर्न बघ्नाति, अप्रमत्तान्तत्वात्तद्बन्धस्य, मोहनीयं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International