________________
३९
शतकं-११, वर्गः-, उद्देशकः-११ केउंति केतुश्चिहं ध्वज इत्यनर्थान्तरं केतुरिव केतुरद्भुतत्वात् कुलस्य केतु- कुलकेतुस्तं, एवमन्यत्रापि, 'कुलदीवंतिदीपइव दीपः प्रकाशकत्वात् 'कुलपव्वयंति पर्वतोऽनभिभवनीयस्थिराश्रयतासाधात् 'कुलवडेसयंति कुलावतंसकं कुलस्यावतंसकः-शेखर उत्तमत्वात् 'कुलतिलयं तितिलको-विशेषकोभूषकत्वात् ‘कुलकित्तिकरं तिइह कीतिरेकदिग्गामिनीप्रसिद्धि 'कुलनंदिकरं'ति तत्समृद्धिहेतुत्वात् 'कुलजसकरं'ति इह यशः-सर्वदिग्गामी प्रसिद्धिविशेष 'कुलपायवं'ति पादपश्चाश्रयणीयच्छायत्वात् 'कुलविवड्डणकर ति विविधैः प्रकारैर्वर्द्धनं विवर्धनं तत्करणशीलं 'अहीणपुन्नपंचिंदियसरीरं'ति अहीनानि-स्वरूपतः पूर्णानि-सङ्ख्यया पुण्यानि वा-पूतानि पञ्चेन्द्रियाणि यत्र तत्तथा तदेवंविधं शरीरं यस्य स तथा तं
यावत्करणात् ‘लक्खणवंजणगुणोववेय'मित्यादि दृश्य, तत्र लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषतिलकादीनि तेषां तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा तं 'ससिसोमाकारं कतं पियदंसणं सुरूवं' शशिवत् सौम्याकारं कान्तं च-कनीयं अत एव प्रियं द्रष्टणादर्शनं-रूपंयस्य स तथा तं विनायपरिणयमित्तेत्तिविज्ञ एव विज्ञकःस चासौपरिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः ‘सूरे'त्ति दानतोऽभ्युपेतनिर्वाहणतो वा 'वीरे'त्ति सङ्ग्रामतः 'विकंते'त्ति विक्रान्तः-परकीयभूमण्डलाक्रमणतः 'विच्छिन्नविपुलबल- वाहणे'त्ति विस्तीर्णविपुले-अतिविस्तीर्णे बलवाहने-सैन्यगजादिकेयस्य स तथा ‘रज्जवइ'त्तिस्वतन्त्र इत्यर्थः 'मा मेसे'त्ति माममासौ स्वप्न इत्यर्थः ‘उत्तमे त्तिस्वरूपतः ‘पहाणे'त्ति अर्थःप्राप्तिरूप-प्रधानफलतः 'मंगल्ले'त्ति अनर्थःप्रतिघातरूपफलापेक्षयेति 'सुमिणजागरिय'ति स्वप्नसंरक्षणाय जागरिका-निद्रानिषेधः स्वप्नजागरिका तां 'पडिजागरमाणी२'ति प्रतिजाग्रती-कुर्वन्ती, आभीक्ष्ण्ये च द्विवचनम्। .
. “गंधोदयसित्तसुइयसममज्जिओवलित्तं तिगन्धोदकेन सिक्तासुचिका-पवित्रा संमार्जिता . कचवरापनयनेन उपलिप्ता छगणादिना यासातथा तां,इदंचविशेषणंगन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवंदृश्य, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्येति, अट्टणसाल'त्ति व्यायामशाला 'जहा उववाइए तहेव अट्टणसाला तहेव मज्जणधरे'त्ति यथौतिपपातिकेऽट्टणशालाव्यतिकरो मञ्जनगृहव्यतिक- रश्चाधीतस्तथेहाप्यध्येतव्य इत्यर्थः, स चायम्-'अनेगवायामजोग्गवग्गणवामद्दणमल्लयुद्धकरणेहिं संते' इत्यादि, तत्र चानेकानि व्यायामार्थः यानि योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वलूगनं-उल्ललनं व्यामईनं-परस्परेणाङ्गमोटनमिति, मज्जनगृहव्यतिकरस्तु 'जेणेव मजणधरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मज्जणधरं अणुपविसइ समंतजालाभिरामे' समन्ततो जालकाभिरमणीये 'विचित्तमणिरयणकुट्टिमतले रमणिज्जेण्हाणमंडवंसि नानामणिरयण- भत्तिचित्तंसि ण्हाणपीढंसि सुहनिसण्णे' इत्यादिरिति।
'महग्घवरपट्टणुग्गय'ति महार्धा च सा वरपत्तनोद्गताच-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासोऽतस्तां वरपट्टनाद्वा-प्रधानवेष्टनकाद् उद्गता-निर्गता या सा तथा तां ‘सण्हपट्टभत्तिसयचित्तताणं ति ‘सण्हपट्ट'त्ति सूक्ष्मपट्टः सूत्रमयो भक्तिशतचित्रस्थानः-तानको यस्यां सा तथा ताम् 'ईहामिए'त्यादि यावत्करणादेवं दृश्यम्-'ईहामियउसभणरतुरगमकरविहगवालगकिन्नररुरुसरभचमरकुंजरवमलयभत्तिचित्तं'ति तत्रेहामृगा-वृका ऋषभाः-वृषभाः नरतुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org