SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ भगवतीअगसूत्रं (२) ११/-/११/५१८ एषामिव स्पर्शो यस्य तत्तथा तत्र 'सुगंधवरकुसुमचुन्नसयणोवयारकलिए'त्ति सुगन्धीनि यानि वरकुसुमानि चूर्णाएतद्वयतिरितक्तथाविधशयनोपचाराश्चतैः कलितंयत्तत्तथातत्र अद्धरत्तकालसमयंसित्ति समयः समाचारोऽपि भवतीति कालेन विशेषितः कालरूपः समयः कालसमयःस चानर्द्धरात्रिरूपोऽपि भवतीत्यतोऽर्द्धरात्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूपः कालसमयोऽर्द्धरात्रकालसमयस्तत्र ‘सुतजागर'त्ति नातिसुप्ता नातिजागरेति भावः किमुक्तं भवति? 'ओहीरमाणी'त्तिप्रचलायमाना, ओरालादिविशेषणानि पूर्ववत् ‘सुविणे'त्तिस्वप्नक्रियायां 'हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुरमणिज्जपेच्छमिजं हारादय इव पाण्डुरतरः-अतिशुक्लः उरु-विस्तीर्णो रमणीयो-रम्योऽत एवं प्रेक्षणीयश्च-दर्शनीयो यः स तथा तम्, इह च रजतमहाशैलो वैताढ्य इति, "थिरलठ्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं'स्थिरौ-अप्रकम्पौलष्टौ-मनोज्ञौ प्रकोष्ठौ-कर्पूराग्रेतनभागौ यस्य स तथा तं वृत्ता-वर्तुलाः पीवराः-स्थूलाः सुश्लिष्टा-अविशर्वराः विशिष्टा-वराः तीक्ष्णा-भेदिका या दंष्ट्रास्ताभिः कृत्वा विडम्बितंमुखंयस्य स तथाततः कर्मधारयोऽतस्तं परिकम्मियजच्चकमलकोमलामाइयसोहंतलठ्ठउटुं' परिकर्मितं-कृतपरिकर्मयज्जात्यकमलंतद्वत्कोमलौमात्रिकौ-प्रमाणोपपनौ शोभमानानांमध्ये लटौ-मनोज्ञौ ओष्ठौ-दशनच्छदौ यस्य स तथा तं रत्तुप्पलपत्तमउयसुकुमालतालुजीह' रक्तोत्पलपत्रवत् मृदूनां मध्ये सुकुमाले तालुजिह्वे यस्य स तथा तं। वाचनान्तरे तु 'रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं महुगुलियामिसंतपिंगलच्छं'त्ति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्तायंतवट्टतडिविमलसरिसनयणं' मूषा-स्वर्णादितापभाजनं तद्गतं यत्प्रवरकनंक तापितंकृताग्नितापम् ‘आवत्तायंत'त्तिआवर्त कुर्वाणं तद्वद्ये वर्णतः वृत्ते च तडिदिव विमले च सद्दशे च परस्परेणनयने-लोचने यस्य स तथा तं विसालपीवरोरुपडिपुन्नविपुलखधं विशाले–विस्तीर्णे पीवरे-उपचिते ऊरू-जो यस्य परिपूर्णो विपुलश्च स्कन्धो यस्य स तथा तं 'मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसरसडोवसोहियं' मृदवः ‘विसद'त्ति स्पष्टाः सूक्ष्माः ‘लक्खणपसत्य'त्ति प्रशस्तलक्षणाः विस्तीर्णा पाठान्तरेण विकीर्णा याः केशरसटाः-स्कन्धकेशच्छटास्ताभिरूपशोभितो यः स तथा तम् ‘ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं' उच्छितं-ऊर्वी कृतं सुनिर्मितं-सुष्टु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितंच-भूमावास्फालितं लालंयेन सतथा तम्। 'अतुरियमचवलं तिदेहमनश्चापल्यरहितंयथा भवत्येवम् 'असंभंताए'त्ति अनुत्सुकया ‘रायहंससरिसीए'त्ति राजहंसगतिसदृश्येत्यर्थः ‘आसत्य'त्ति आश्वस्ता गतिजनितश्रमाभावात् 'वीसत्थ'त्ति विश्वस्ता सङ्क्षोभाभावात् अनुत्सुका वा 'सुहासणवरगय'त्ति सुखेन सुखं वा शुभंवाआसनवरंगतायासा तथा धाराहयनीवसुरहिकुसुमचंचुमालइयतणुत्ति धाराहतनीपसुरभि-कुसुममिव ‘चंचुमालइय'त्ति पुलकिता तनुः-शरीरं यस्य स तथा, किमुक्तं भवति? 'ऊसविय-रोमकूवे'त्ति उच्छ्रितानि रोमाणिकूपेषु-तद्रन्धेषु यस्य स तथा, 'मइपुव्वेणं'ति आभिनिबोधिकप्रभवेन 'बुद्धिवन्नाणेणं ति मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन 'अत्थोग्गहणं'ति फलनिश्चयम् ‘आरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकारएण'ति इह कल्याणानिअर्थःप्राप्तयो मङ्गलानि-अनर्थःप्रतिघाताः ‘अत्थलाभो देवाणुप्पिए!' भविष्यतीति शेषः 'कुल For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy