________________
शतकं - २५, वर्ग:-, उद्देशकः - ४
४०३
निरेजताया औत्सर्गिकत्वात्, अत एव निरेजत्वमुत्कर्षतोऽसङ्घयेयं कालमुक्तमिति, 'निरेए' त्ति निश्चलः । बहुत्वसूत्रे 'सव्वद्धं' ति सर्व्वाद्धां सर्वकालं परमाणवः सैजाः सन्ति, नहि कश्चित् स समयोऽस्ति कालत्रयेऽपि यतर परमाणवः सर्व एवन चलन्तीत्यर्थः, एवं निरेजा अपि सर्व्वाद्धामिति
अथ परमाण्वादीनां सैजत्वाद्यन्तरमाह - 'परमाणु' इत्यादि, 'सट्ठानंतरं पडुच्च' त्ति स्वस्थानंपरमाणोः परमाणुभाव एव तत्र वर्त्तमानस्य यदन्तरं - चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं तव्यतीत्य 'जहन्नेणं एवं समयं 'ति निश्चलताजघन्यकाललक्षणं 'उक्कोसेणं असंखेजं कालं' ति निश्चलताया एवोत्कृष्टकाललक्षणं, तत्र जघन्यतोऽन्तरं परमाणुरेकं समयं चलनादुपरम्य पुनश्चलतीत्येवं, उत्कर्षतश्च स एवासङ्घयेयं कालं कचित्स्थिरो भूत्वा पुनश्चलतीत्येवं ध्श्यमिति ।
‘परट्ठानंतरंपडुच्च’त्ति परमाणोर्यत्परस्थाने-द्वयणुकादावन्तर्भूतस्यान्तरं - चलनव्यवधानं तत्परस्थानान्तरं तव्यतीत्येति 'जहन्त्रेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं ति, परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशादिकं स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं समयं स्थित्वा पुनर्भ्राम्यति उत्कर्षतस्त्वसङ्ख्येयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यतीति ।
'निरेयस्से' त्यादि, निश्चलः सन् जघन्यतः समयमेकं परिभ्रम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलिकाया असङ्घयेयं भागं चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तं, परस्थानान्तरं तु निश्चल सन् ततः स्वस्थानाच्चलितो जघन्यतो द्विप्रदेशादौ स्कन्धे एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतस्त्वसङ्घयेयं कालं तेन सह स्थित्वा पृथग् भूत्वा पुनस्तिष्ठति ।
'दुपएसियस्से' त्यादि, 'उक्कोसेणं अनंतं कालं 'ति, कथम् ?, द्विप्रदेशिकः संश्चलितस्ततोऽनन्तः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वन्नन्तेन कालेन पुनस्ते व माणुना सह सम्बन्ध प्रतिपद्य पुनश्चलतीत्येवमिति । सैजादीनामेवाल्पबहुत्वमाह - 'एए सि ण 'मित्यादि, 'निरेया असंखेज्जगुण' त्ति स्थितिक्रियाया औत्सर्गिकत्वाद्बहुत्वमिति, अनन्तप्रदेशिकेषु सैजा अनन्तगुणावस्तुस्वभावात् ।
एतदेव द्रव्यार्थ प्रदेशार्थोभयार्थैर्निरूपयन्नाह - 'एएसि ण' मित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टी पदानि एवं प्रदेशार्थतायामपि, उभयार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात्, अथ 'पएसट्टयाए एवं चेव' इत्यत्रातिदेशे यो विशेषीऽसावुच्यते- 'नवरं परमाणु' इत्यादि, परमाणुपदे प्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यं, अप्रदेशार्थत्वात्परमाणूनां तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रे तु ते तेभ्यो ऽसङ्घयेयगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्घ यातगुणा भवन्ति, तेषु च मध्ये बहूनामुत्कृष्टसङ्ख्यातकप्रमाणप्रदेशत्वान्निरेजपरमाणुभ्यस्ते : देशतोऽसङ्घयेयगुणा भवन्ति उत्कृष्टसङ्घयातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति ।
अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह - 'परमाणु' इत्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वेजत्वनिरेजत्वविशेषणात् सङ्केययादीनां तु त्रयाणां प्रत्येकं देशैजसर्वैजनिरेजत्वैर्विशेषणादेकादश पदानि भवन्ति, एवं प्रदेशार्थतायामपि, उभयार्थतायां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International