SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३८७ शतकं-२५, वर्गः-, उद्देशकः-३ ॥४॥ इय सव्वलोगपज्जवरासीओवि समया अनंतगुणा । पावंति गणेहंता किं पुणता पोग्गलेहिंतो।। अन्यस्तुप्रेरयतिउत्कृष्टतोऽपिषण्मासमात्रमेव सिद्धिगतेरन्तरं भवतितेन च सेत्स्यद्भयः सिद्धेभ्योऽपिच जीवेभ्योऽसङ्ख्यातगुणा एव समया भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयोपेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो द्रव्याणि विशेषाधिकानीति, कथम्?, अत्रोच्यते,यस्मात्सर्वेसमयाः प्रत्येकं द्रव्याणिशेषाणिच जीवपुद्गलधर्मास्तिकायादीनितेष्वेवक्षिप्तानीत्तः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानिभवन्तिनसङ्ख्यातगुणादीनि, समयद्रव्यापेक्षयाजीवादिद्रव्याणमल्पतरत्वादिति,उक्तञ्च॥१॥ “एत्तो समएहिंतो होति विसेसाहियाइंदव्वाई। जं भेया सव्वेच्चिय समया दव्वाइं पत्तेयं ॥ ॥२॥ सेसाइ जीवपोग्गलधम्माधम्मंबराइंछूढाई। दव्वठ्ठाए समएसु तेण दव्वा विसेसहिया ॥ नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते ? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वा, तथाहि-यथा स्कन्धो द्रव्यं सिद्धं स्कन्धावयवा अपि यथा प्रदेशाः सिद्धाः एवं समयस्कन्धवर्तिनःसमया भवन्ति प्रदेशाश्चद्रव्यंचेति, अत्रोच्यते, परमाणूनामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तं, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धाभावेच वर्तमानाः प्रत्येकवृत्तयएव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षाः अन्योऽन्यनिरपेक्षत्वाच्च न ते वास्तवस्कन्धनिष्पादकास्ततश्च नैषांप्रदेशार्थतेति, उक्तश्चात्र॥१॥ "आहऽद्धासमयाणं किं पुण दव्वठ्ठए व नियमेणं । तेसिपएसट्ठाविहु जुज्जइ खंधं समासज्ज । ॥२॥ सिद्धं खंधो दव्वं तदवयवाविय जहा पएसत्ति । इयतव्वत्ती समया होति पएसायदव्वं च। ॥३॥ भन्नइ परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण अन्नोन्नावेक्खया नत्थि ॥ ॥४॥ अद्धासमया जम्हा पत्तेयत्ते य खंधभावेय। पत्तेयवत्तिणो च्चिय ते तेणऽन्नोन्ननिरवेक्खा ।। अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथम् ?, उच्यते, अद्धासमयद्रव्येभ्य आकाशप्रदेशानामन्तगुणत्वात्, ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणमाश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः ? इति, उच्यते, एकस्यामनाद्यपर्यवसितायामाकाशप्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायत श्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवोर्ध्वाधआयतश्रेणीविरचनेनाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यांतुसैव श्रेणीभवतिन पुनर्धनस्ततः कालसमयाः स्तोका भवन्तीति, इह गाथाः॥१॥ “एत्तो सव्वपएसानंतगुणा खप्पएसनंतत्ता। सव्वागासमनंतं जेण जिणिंदेहिं पन्नत्तं ॥" For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy