________________
३८५
शतकं-२५, वर्गः-, उद्देशकः-३ सकायिकाकायिकनां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापिाणितव्यं, तच्चैवमर्थतः॥१॥"तस १ तेउ २ पुढवि ३ जल ४ वाउकाय ५ अकाय ६ वणस्सइ७ सकाया ८॥
थोव १ असंखगुणा २ हिय तिन्नि उ ५ दोनंतगुण ७ अहिया ८॥"
अल्पबहुत्वाधिकारादेवेदमाह-- “एएसिण मित्यादि, जीवाणंपोग्गलाणं' इहयावत्करणादिदं दृश्यं–'समयाणं दव्वाणं पएसाणं'ति 'जहा बहुवत्तव्वयाए'त्ति, तदेवमर्थतः॥१॥ “जीवा १ पोग्गल २ समया ३ दव्व ४ पएसा य ५ पज्जवा ६ चेव ।
थोवा १ नंता २ नंता ३ विसेसअहिया ४ दुवेऽनंता ६॥" इह भावना-यतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असंबद्धाश्च भवन्तीत्यतः स्तोकाः पुद्गलेभ्यो जीवाः, यदाह॥२॥ "जंपोग्गलावबद्धा जीवा पाएण होंति तो थोवा।
- जीवेहिं विरहिया अविरहिया वपुन पोग्गला संति॥" _. जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथं ?, यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाणमाश्रित्यानन्तगुणं भवति, तथा तैजसशरीराप्रदेशतोऽनन्तगुणं कार्मणं, एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्तेचते ताभ्यामनन्तगुणे भवतः, शेषशरीरचिन्ता त्विह च कृता, यस्मात्तानि मुक्तान्यपि स्वंस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेवमिह तैजसशरीरपुद्गला अपिजीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽपि विनसापरिणता अनन्तगुणास्त्रिविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां प्रतनुकेऽनन्तभागे वर्तन्ते, यस्मादेवं तस्माजीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैर्गुणिताः सिद्धा इति, आह च॥१॥ “जंजेण परिगहियं तेयादि जिएण देहमेक्केकं।
तत्तो तमनंतगुणं पोग्गलपरिणामओ होइ॥ ॥२॥ तेयाओ पुण कम्मगमनंतगुणियंजओ विणिद्दिढ़।।
एवं ता अवबद्धाइंतेयगकम्माइंजीवेहिं । ॥३॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुक्का इं।
इह पुण थोवत्ताओ अग्गहणं सेसदेहाणं॥ ॥४॥ जंतेसिं मुक्का इंपिहोंति सठ्ठाणऽनंतभागंमि ।
तेणं तदग्गहणमिहं बद्धाबद्धाण दोण्हपि । ॥५॥ इह पण तेयसरीरगबद्धच्चिय पोग्गला अनंतगुणा।
जीवेहितो किं पुण सहिता अवसेसरासीहिं? ॥ ॥६॥ थोवा भणिया सुत्ते पत्ररसविहप्पओगपाओग्गा।
तत्तो मीसपरिणया नंतगुणा पोग्गला भणिया। ॥७॥ तो वीससापरिणया तत्तो भणिया अनंतसंगुणिया।
एवं तिविहपरिणया सव्वेवि य पोग्गला लोए। 1525
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org