________________
भगवती अङ्गसूत्रं (२) २४/-/१/८४२ गमएसुमनूसस्स लद्धी'ति ‘ओहिओ ओहिएसु १ ओहिओ जहन्नद्वितीएसु २ ओहिओ उक्कोसट्ठिईएसु ३ 'त्ति एते औधिकस्त्रयो गमाः ३ ।
एतेषु 'एषा' अनन्तरोक्ता मनुष्यस्य 'लब्धिः' परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदम्यदुत नारकस्थितिं कालादेशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौधिको जघन्यस्थितिष्वित्यत्र नाकस्थितिर्जघन्येताशभ्यां सागरोपमं कालतस्तु संवेधो जघन्यतो वर्षपृथकत्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुः पूर्वकोट्यधिकं, तृतीयेऽप्येवमेव नवर सागरोपमस्थाने जघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः 'सागरोपमद्वादशकं वाच्यमिति ।
३३०
'सो चेवे' त्यादि चतुर्थादिगमत्रयं, तत्र च 'संवेहो उवजुज्जिऊण भाणियव्वो' त्ति, स चैवंजघन्यस्थितिक औघिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिकं उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः ।
‘सोचेव’त्यादि सप्तमादिगमत्रयं, तत्र च 'संवेहो उवजुज्जिऊण भाणियव्वो'त्ति, स चैवंजघन्यस्थितिक औघिकेष्वित्यत्र गमे संवेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु द्वादश सागरोपमाणि वर्षपृथकत्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थिति केष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं वर्षपृथकत्वाधिकं उत्कृष्टतस्तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यह्यः ।
‘सो चेवे’त्यादि सप्तमादिगमत्रयं, तत्र च 'इमं नाणत्त' मित्यादि, शरीरावगाहना पूर्वं हस्तपृथक्त्वं धनुःशतपञ्चकं चोक्ता इह तु धनुः शतपञ्चकमेव, एवमन्यदपि नानात्वमभ्यूह्यम् ।
• ' मणुस्सठिई जाणियव्व' त्ति तिर्यस्तिथिर्जघन्याऽन्तर्मुहूर्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितिर्ज्ञातव्या सा च जघन्या द्वितीयादिगामिनां वर्षपृथकत्वमुत्कृष्टा तु पूर्वकोटीति ।
सप्तमपृथिवीप्रथमग 'तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाई' ति इहोत्कृष्टः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येष्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति ॥
शतकं - २४ उद्देशकः-१ समाप्तः
-: शतकं - २४ उद्देशकः-२ :
वृ. व्याख्यातः प्रथमोद्देशकः अथ द्वितीयो व्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि अस्य चेदमादिसूत्रम् -
मू. (८४३) रायगिहे जाव एवं वयासी - असुरकुमारा णं भंते! कओहिंतो उववज्रंति किं नेरइएहिंतो उवव० तिरि० मणु० देवेहिंतो उववज्जति ?, गोयमा ! नो इएहिंतो उवव० तिरि० मणुस्सेहिंतो उवव० नो देवेहिंतो उवव० एवं जहेव नेरइयउद्देसए जाव पज्जत्तअसन्निपंचिंदितिरिक्खजोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते केवतिकालट्ठितीएस उववज्जेज्जा ?, गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु उक्कोसेणं पनिओवमस्स असंखेज्जइभागद्वितीएसु उवव०, ते णं भंते! जीवा एवं रयणप्पभागमगसरिसा नववि गमा भाणियव्वा नवरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org