________________
३२४
भगवतीअङ्गसूत्रं (२) २४/-/१/८३९ आइल्लग’त्ति असञ्ज्ञिनः पञ्चेन्द्रियतिरश्चयः समुद्घाताः सञ्ज्ञिनस्तु नरकं यियासोः पञ्चाद्याः, अन्त्ययोर्द्वयोर्मनुष्याणामेव भावादिति ।
'जहन्नेणं दो भवग्गहणाई' ति सञ्ज्ञिपञ्चेन्द्रियतिर्यङ् उत्पद्य पुनर्नरकेषूत्पद्यते ततो मनुष्येषु एवमधिकृतकायसंवेधे भवद्वयं जघन्यतो भवति, एवं भवग्रहणाष्टकमपि भावनीयं, अनेन चेतमुक्तं-सञ्ज्ञिपञ्चेन्द्रियतिर्यक् ततो नारकः पुनः सञ्ज्ञिपश्ञ्चेन्द्रियति र्यङ् पुनर्नारकः पुनः सञ्ज्ञिपञ्चेन्द्रियतिर्यङ् पुनर्नारकस्ततः पुनः सञ्ज्ञिपञ्चेन्द्रियतिर्यङ् पुनस्तस्यामेव पृथिव्यां नारक इयंवमष्टावेव वारानुत्पद्यते नवमे भवे तु मनुष्यः स्यादिति, एवमौधिक औधिकेषु नारकेषूत्पादितः, अयं चेह प्रथमो गमः ।
'पज्जत्ते' त्यादिस्तु द्वितीयः २ 'सो चेव उक्कोसकाले' इत्यादिस्तु तृतीयः ३ 'जहन्नकालद्वितीये त्यादिस्तु चतुर्थः ४ ।
तत्र च 'नवरं इमाई अट्ठ नाणत्ताइं 'ति, तानि चैवं-तत्र शरीरावगाहनोत्कृष्टा योजनसहनमुक्ते धनुः पृथक्त्वं, तथा तत्र लेश्याः षड् इह त्वाद्यास्तिस्रः, तथा तत्र दृष्टिस्त्रिधा इह तु मिथ्यादृष्टिरेव, तथा तत्राज्ञानानि त्रीणि भजनया इह तु द्वे एवाज्ञाने, तथा तत्र आद्याः पञ्च समुद्घाता इह तु त्रयः, 'आउअज्झवसाणा अनुबंधो य जहेव असन्नीणं' ति जघन्यार्थतिकासञ्ज्ञिगम इवेत्यर्थः, ततश्चायुरिहान्तर्मुहूर्त, अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यन्तर्मुहूर्तमेवेति, 'अवसेस' मित्यादि, अवशेषं यथा सञ्ज्ञिनः प्रथमगमे औधिक इत्यर्थः निगमनवाक्यं चेदं - 'अवसेसो चेव गमओ'त्ति अनेनैवेतदर्थस्य गतत्वादिति, 'सो चेव जघन्नकाले 'त्यादिस्तु सञ्ज्ञिविषये पञ्चमो गमः ५ ।
इह च 'सो चेव' त्ति स एव सञ्ज्ञी जघन्यस्थितिकः, 'सो चेव उक्कोसे' त्यादिस्तु षष्ठ : ६, 'उक्कोसकाले' त्यादिस्तु सप्तमः ७, तत्र च 'एएसिं चेव पढमगमोत्ति' एत्षामेव सञ्ज्ञिनां प्रथमगमो यत्रौधिक औधिकेषूत्पादितः, 'नवर' मित्यादि तत्र जघन्याऽप्यन्तर्मुहूर्तरूपा सञ्ज्ञिनः स्थितिरुक्ता सेह न वाच्येत्यर्थः एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति, 'सो चेवे 'त्यादिरष्टमः ।
इह च ' सो चेव ' त्ति स एवोत्कृष्टस्थितिकः सञ्ज्ञी ८, 'उक्कोसे' त्यादिर्नवमः ९, 'उक्खेवनिक्खेवओ' इत्यादि, तत्रोत्क्षेपः
प्रस्तावना स च प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु-निगमनं सोऽप्येवमेवेति पर्याप्तकसङ्ख्यातवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रत्नप्रभावक्तव्यतोक्ता, अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औघिकेषु तावदुच्यते
मू. (८४०) पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजो० भंते! जे भविए सक्करप्पभाए पुढवीए नेरइएस उव्वजित्तए से णं भंते! केवइकालङ्घितीएसु उबव० ?, गोयमा ! जह० सागरोवमट्टितीएसु उक्को० तिसागरोवमट्टितीएसु उववज्जेज्जा ।
ते णं भंते ! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववज्जंतगमगस्स लट्ठी सच्चेव निरवसेसा भा० जाव भवादेसोत्ति कालादेसेणं जहन्त्रेणं सागरोवमं अंतोमुहुत्तं अब्भहियं उक्कोसेणं बारससागरोवमाउइं चउहिं पुव्वकोडीहिं अब्भहियाइं एवतियं जाव करेज्जा १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org