________________
भगवतीअङ्गसूत्रं (२) २१/१/१/८०७ वनस्पतिषूत्पत्तिरुक्ता इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोक्तं 'नवरं देववज्जं 'ति । 'एक्को वे' त्यादि, यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्तिर्न विरुद्धेति । 'अवहारो जहा उप्पलुद्देस' त्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं ।
'ते णं भंते! जीवा समये २ अवहीरमाणा २ केवतिकालेणं अवहीरंति ? गोयमा ! तेणं असंखेज्जा समए २ अवहीरमाणा २ असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेवणं अवहिया सिय'त्ति 'ते णं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा ?' इतः परं यदुक्तं 'जहा उप्पलुद्देसए' त्ति अनेनेदं सूचितं- 'गोयमा ! नो अबंधगा बंधए वा बंधगा वे'त्यादि, एवं वेदोदयोदीरणा अपि वाच्याः, लेश्यासुतु तिसृषु षड्विशंतिर्भङ्गाः - एकवचनान्तत्वे ३ बहुवचनान्तत्वे ३ तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावाद् द्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति ।
३१२
'दिट्ठी 'त्यादि, ष्टिपदादारभ्येन्द्रियपदं यावदुदुत्पलोद्देशकवन्नेयं, तत्र ध्ष्टौ मिथ्याध्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत एव वाच्यं ।
'से णं भंते' इत्यादिना 'असंखेज्जं काल' मित्येतदन्तेनानुबन्ध उक्तः, अथ कायसंवेधमाह - 'से ण' मित्यादि, 'एवं जहा उप्पुलुद्देसए' त्ति, अनेन चेदं सूचितं - 'गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाइं उक्कोसेणं असंखेज्जाई भवग्गहणाई कालादेसेणं जहन्त्रेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज्जं काल' मित्यादि, 'आहारो जहा उप्पलुद्देसए' त्ति एवं चासौ
‘ते णं भंते ! जीवा किमाहारमाहारेंति ?, गोयमा ! दव्वओ अनतपएसियाइं' इत्यादि, 'समुग्ध्यए' इत्यादि, अनेन च यत्सूचितं तदर्थलेशोऽयं तेषां जीवानामाद्यास्त्रयः समुद्घातास्तथा मारणान्तिकसमुद्घातेन समवहता प्रियन्ते असमवहता वा, तथोपवृत्तास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति शतकं-१ वर्गः-१ उद्देशकः-१ समाप्तः
-: शतकं -१ वर्गः-१ उद्देशकः-२ :
मू. (८०८) अह भंते! साली वीही जाव जवजवाणं एएसि णं जे जेवी कंदत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववज्रंति एवं कंदाहिकारेण सच्चेव मूलुद्देसो अपरिसेसो भाणियव्वो जाव असतिं अदुवा अनंतखुत्तो सेवं भंते २ त्ति ।
शतकं-१ वर्गः-१ – उद्देशकाः - ३...१० :एवं खंधेवि उद्देसओ नेयव्वो ।
एवं तयाएवि उद्देसो भाणियव्वो ॥ सालेवि उद्देसो भाणियव्वो ।
पवालेवि उद्देसो भाणियव्वो ॥ पत्तेवि उद्देसो भाणियव्वो ॥
मू. (८१३)
मू. (८१४) एएसत्तवि उद्देसगा अपरिसेसं जहा मूले तहा नेयव्वा ॥
मू. (८०९)
मू. (८१०)
मू. (८99)
मू. (८१२)
एवं पुप्फेवि उद्देसओ नवरं देवा उववज्रंति जहा उप्पलुद्देसे चत्तारि लेस्साओ असीति भंगा ओगाहणा जह० अंगुलस्स असंखेज्जइभागं उसेणं अंगुलपुहुत्तं सेसं तं चेव सेवं भंते! २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org