________________
३१०
भगवतीअगसूत्रं (२) २०/-/१०/८०५ नोअकतिसञ्चित अनन्तानामसङ्ख्यातानां वा तेषां समयेनासम्भवादिति ।
एषामेवाल्पबहुत्वं चिन्त्यन्नाह 'एएसी'त्यादि, अवक्तव्यकसञ्चिताः स्तोकः अवक्तव्यकस्थानस्यैकत्वात्, कतिसञ्चिताः असङ्ख्यातगुणाः, सङ्ख्यातत्वात्सङ्ख्यातस्थानकानाम्, अकतिसञ्चितस्त्वसङ्ख्यातगुणाः असङ्ख्यातस्थानकानामसङ्ख्यातत्वादित्येके, अन्ये त्वाहुः-वस्तुस्वभावोऽत्र कारणं न तु स्थानकाल्पत्वादि कथमन्यथा सिद्धाः कतिसञ्चिताः स्थानकबहुत्वेऽपि स्तोकाअवक्तव्यकस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणा द्वयादित्वेन केवादिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति। . नारकाधुत्पादविशेषणभूतसङ्ख्याऽधिकारादिदमाह-'नेरइया ण मित्यादि ‘छक्कसमज्जिय'त्ति षट् परिमाणमस्येति षट्कं वृन्दं तेन समर्जिताः-पिण्डिताः षट्कसमर्जिताः, अयमर्थः-एकत्र समये येसमुत्पद्यन्ते तषांयो राशिसषट्प्रमाणो यदि स्यात्तदातेषट्कसमर्जिता उच्यन्ते १ 'नोछक्कसमज्जिय'त्ति शेषट्कंषटकाभावः ते चैकादयः पञ्चान्तास्तेन नोषट्केनएकाद्युत्पादेन ये समर्जितास्ते तथा २ तथा ‘छक्केण य नोछक्केण समज्जिय'त्ति एकत्र समये येषां षटकमुत्पन्नमेकाद्यधिकं तेषट्केन नोषट्केन च समर्जिता उक्ताः ‘छक्केहि यसमज्जिय'त्तिएकत्र समये येषां बहूनि षटकान्युत्पन्नानि ते षट्कैः समर्जिता उक्ताः ४ तथा 'छक्केहि य नोछक्केण य समज्जिय'त्ति एकत्र समयेयषां बहूनिषट्कान्येकाद्यधिकानि ते षट्कैः नोषट्केन च समर्जिताः, एते पञ्च विकल्पाः, इह च नारकादीनां पञ्चापि विकल्पाः संभवन्ति एकादीनासमङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः। ___असङ्ख्यातेष्वपि च ज्ञानिनः षट्कानि व्यवस्थापयन्तीति, एकन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशनात् षट्कैः समर्जिताः, तथा षट्कै!षट्केन च समर्जिता इति विकल्पद्वयस्यैव सम्भव इति,अतएवाह-'पुढविक्काइयाण'मित्यादि । एषामल्पबहुत्वचिन्तायां नारकादयःस्तोकाआद्याः, षट्कस्थानस्यैकत्वात्, द्वितीयास्तु सङ्ख्यातगुणाः, नोषट्कस्थानानां बहुत्वात्, एवं तृतीयचतुर्थपञ्चमेषु स्थानबाहुल्यात्सूत्रोक्तंबहुत्वमवसेयमित्येके अन्ये तुवस्तुस्वभावादित्याहुरिति एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति ॥
शतकं-२० उद्देशकः-१० समाप्तः ॥१॥ विंशतितमशतकमलं विकाशितं वृद्धवचनरविकिरणैः ।
विवरणकरणद्वारेण सेवितं मधुलिहेव मया ॥
शतकं-२० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे वींशतितमशतकस्य अभयदेवसुरिविरचिता टीका परिसमाप्ता।
(शतकं-२१) वृ. व्याख्यातं विंशतितमशतम्, अथावसरायातमेकविंशतितममारभ्यते, अस्य चावावेवोद्देशकवर्गसङ्ग्रहायेयं गाहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org