________________
२९४
भगवती अङ्गसूत्रं (२) २०/-/५/७८६
119 11
"अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेजा भंगपत्थारे ॥”
119 11
छत्तीसं भंग त्ति द्वित्रिचतुःस्पर्शेषु चतुः षोडशषोडशानां भावादिति, इह वुद्ध गाथे“वीसइमसउद्देसे चउप्पएसाइए चउप्फासे । एगबहुवयणमीसा बीयाइया कहं भंगा ॥
एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति ?, यत्रैव पदे एकवचनं प्रागुक्तं तत्रैव बहुवचनं बहुवचने त्वेकवचनम्, एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं
11911
"देसो देसा व मया दव्वखेत्तवसओ विवक्खाए । संघायभेयतदुभयभावाओ वा वयणकाले ।”
अयमर्थः- देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्म्मयुक्तद्रव्यवशेनैकानेकावगाहक्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात्, अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वानेकविविक्षणादेवेति । पञ्चप्रदेशिके 'जइतिवन्ने' त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमस्यासम्भवात् एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति ।
'जइ चउवन्ने' इत्यादि, चतुर्णां पदानां षोडश भङ्गास्तेषु चेह पञ्च सम्भविनस्ते च सूत्रसिद्धा एव, पञ्चसु वर्षेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येकं भावात्पञ्चविंशतिरिति, 'ईयालं भंगसयं' ति पञ्चप्रदेशिके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसवयानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति ।
छप्पएसिए ण मित्यादि इह सर्वं पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भङ्गा वाच्याः, अष्टमस्याप्यत्र सम्भवात्, एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्ताना षोडशानां भङ्गकानामष्टदशान्तिमत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां चपञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चपञ्चशदिति ।
'जइ पंचवन्ने' इत्यादौ षड् भङ्गाः, 'छासीयं भंगसयं' ति एकादिसंयंगोसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशतषटसङ्ख्यभङ्गकानां मीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं भवति 'सत्तपएसिय' इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति ।
'जइ पंचवन्ने' इत्यादि, इह पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषां च षोडशानामाद्यास्त्रयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयं' त्ति एकद्वित्रिचतुष्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते षोडशोत्तरे स्यातामिति ।
‘अट्ठपएसिए’इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु भावादशीतिर्भङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जा शेषाः षडविंशतिर्भङ्गका भवन्तीत्यर्थः, 'दो इक्कतीसाई' ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org