________________
२८६
भगवती अङ्गसूत्रं (२) २०/-/२/७८२
इति नभः, 'समे’त्ति निम्नोन्नतत्वाभावात्समं 'विसमे 'ति दुर्गमत्वाद्विषमं 'खहे' त्ति खनने भुवो हानेच - त्यागे यद्भवति तत् खहमिति निरुक्तिवशात्, 'विहे' त्तिविशेषेण हीयतेत्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिन्निति विहं, 'वीइ 'त्ति वेचनात् विविक्तस्वभावत्वाद्वीचि ।
'विवरे' त्ति विगतवरणतया विवरम् ' अंबरे' त्ति अम्बेव - मातेव जननसाधर्म्मादम्बा - जलं तस्य राणाद्-दानान्निरुक्तितोऽम्बरं, 'अंबरसे' त्ति अम्बा - पूर्वोक्तयुक्ता जलं तद्रूपो रसो यस्मात्तन्निरूक्तितोऽम्बरसं, 'छिड्डे' त्ति छिदः - छेदनस्यास्तित्वाच्छिद्रं 'झुसिरे' त्ति झुषेः - शोषस्य दानात्शुषिरं, 'मग्गे त्ति पथिरूपत्वान्मार्गः, 'विमुहे 'त्ति मुखस्य - आदेरभावाद्विमुखम् 'अद्दे' त्ति 'अर्धते - गम्यते अट्टयते वा - अतिक्रिम्यतेऽनेनेत्यर्द्दः अट्टो वा 'वियद्दे' त्ति स एव विशिष्टो व्यद्दों व्यट्टो वा 'आधारे 'त्ति आधारणादाधारः 'वोमे' त्ति विशेषेणावनाद्वयोम |
"
'भायणे’त्ति भाजनाद् - विश्वस्याश्रयणाद्भाजनम्, 'अंतलिक्खे' त्ति अन्तः मध्ये ईक्षादर्शनं यस्य तदन्तरीक्षं, 'सामे'त्ति श्यामवर्णत्वात् श्यामम् ‘ओवासंतरे’त्ति अवकाशरूपमन्तरं न विशेषादिरूपमित्यवकाशान्तरम् 'अगमे 'त्ति गमनक्रियारहितत्वेनागमं 'फलिहि' त्ति स्फटिकमिवाच्छत्वात् ‘आय’त्ति आत्मा नानागतिसततगामित्वात् 'रंगणे' त्ति रङ्गणं- रागस्तद्वयोगाद्रङ्गणः 'हिंड्डुए 'त्ति हिण्डुकत्वेन हिण्डुकः, 'पोग्गले' त्ति पूरणाद्गलनाच्च शरीरादीनां पुद्गलः ।
'माणव’त्ति मा-निषेधे नवः - प्रत्यग्रो मानवः अनादित्वात्पुराण इत्यर्थः ‘कत्त’ति . कर्त्ताकारकः कर्म्मणा 'विगत्त' त्ति विविधतया कर्त्ता विकर्त्ता विकर्त्तयिता वा-छेदकः कर्म्मणामेव 'जए' त्ति अतिशयगमनाज्जगत् 'जंतु 'त्ति जननाज्जन्तुः 'जोणि'त्ति योनिरन्येषामुत्पादकत्वात् 'सयंभु' त्ति स्वयंभवनात्स्वयम्भूः 'ससरीरि' त्ति सह शरीरेणेति सशरीरी 'नायए' ति नायकः - कर्मणां नेता 'अंतरप्प' त्ति अन्तः - मध्यरूपा आत्माना शरीररूप इत्यन्तरात्मेति ॥
शतकं - २० उद्देशकः-२ समाप्तः
-: शतक - २० उद्देशकः-३ :
वृ. द्वितीयोद्देशके प्राणातिपादादिका अधर्म्मास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
मू. (७८३) ' अह भंते! पाणाइवा० मुसावा० जाव मिच्छादं० पाणातिवायवेरमणे जाव मिच्छादंसणसल्लविवेगे उप्पत्तिया जाव पारिणामिया उग्गहे जावधारणा उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे नेरइयत्ते असुरकुमारत्ते जाव वेमाणियत्ते नाणावरणिज्जे जाव अंतराइए कण्हलेस्सा जाव सुक्कलेस्सा सम्मदिट्ठी ३ ।
-चक्खुदंसणे ४ आभिनिबोहियनाणे जाव विभंगनाणे आहारसन्ना ४ ओरालियसरीरे ५ मणजोगे ३ सागारोवओगे अनागारोवओगे जे यावन्नो त० सव्वे ते नन्नत्थ आयाए परिणमंति हंता गोयमा ! पाणाइवाए जाव सव्वे ते नन्नत्थ आयाए परिणमंति ।।
वृ. 'अहे 'त्यादि, 'ननत्थ आयाए परिणमंति' त्ति नान्यत्रात्मनः परिणमन्ति - आत्मानं वर्जयित्वा नान्यत्रैते वर्त्तन्ते, आत्मपर्यायत्वादेषां पर्यायाणां च पर्यायिणा सह कथञ्चिदेकत्वादामरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः ॥ अनन्तरं प्राणातिपातादयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org