SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) १९/-/९/७७४ कइविहे णं भंते! पोग्गलकरणेप० ? गोयमा ! पंचविहे पोग्गलकरणे पं० तं० - वन्नकरणे गंधकरणे रसकरणे फासकरणे संठाणकरणे, वन्नकरणे णं भंते! कतिविहे प० ?, गोयमा ! पंचविहे प०, तंजहा - कालवन्नकरणे जाव सुकिल्लवन्नकरणे, एवं भेदो, गंधकरणे दुविहे रसकरणे पंचविहे फासकरणे अट्ठविहे । २८२ संठाणकर णं भंते! कतिविहे प० ?, गोयमा ! पंचविहे प०, तंजहा - परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते! २ त्ति जाव विहरति ॥ वृ. 'कइविहे ण' मित्यादि, तत्र क्रियतेऽनेनेति करणं - क्रियायाः साधकतमं कृतिर्वा करणं-क्रियामात्रं, नन्वस्मिन् व्याख्याने करणस्य निर्वृत्तेश्च न भेदः स्यात्, निर्वृत्तेरपि क्रियारूपत्वात्, नैवं, करणमारम्भक्रिया निर्वृत्तिस्तु कार्यस्य निष्पत्तिरिति । ‘दव्वकरणे’त्ति द्रव्यरूपं करणं - दात्रादि द्रव्यस्य वा - कटादेः द्रव्येण-शकालादिना द्रव्ये वा - पात्रादौ करणं द्रव्यकरणं, 'खेत्तकरणं' ति क्षेत्रमेव करणं क्षेत्रस्य वा - शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं । 'कालकरणे 'त्ति काल एव करणं कालस्य वा - अवसरादेः करणं कालेन वा काले वा करणं कालकरणं । 'भवकरणं' ति भवो - नारकादि स एव करणं तस्य वा तेन वा तस्मिन् वा करणम्, एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति ।। शतकं - १९ उद्देशकः - ९ समाप्तः -: शतक - १९ उद्देशकः - १०: वृ.० नवमे करणमुक्तं, दशमे तु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयंमू. (७७८)' वाणमंतराणं भंते! सव्वे समाहारा एवं जहा सोलसमसए दीवकुमारुद्देसओ जाव अप्पड्डियत्ति भंते २ ॥ वृ. सुगमो नवरं 'जाव अप्पड्डिय'त्ति अनेनेदमुद्देशकान्तिमसूत्रं सूचितम् -'एएसि णं भंते वाणमंतराणं कण्हलेसाणं जाव तेउलेसाण य कयरे २ हिंतो अप्पड्डिया वा महड्डिया वा ?, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सव्वमहड्डिया तेऊलेस्स' त्ति ।। शतक - १९ उद्देशकः - १० समाप्तः 119 11 “ एकोनविंशस्य शतस्य टीकामज्ञोऽप्यकार्षं सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयः प्रसूते ॥ शतकं - १९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे एकोनविंशतिशतकस्य अभयदेवसूरिविरचिता टीका परिसमाप्ता । शतक - २० वृ. व्याख्यातमेकोनविंशतितमं शतम्, अथावसरायातं विंशतितममारभ्यते तस्य चादावेवोद्देशक सङ्ग्रहणी 'बेइंदिये' त्यादि गाथामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy