________________
शतकं-१८, वर्ग:-, उद्देशकः-१०
२६९ रादनगारितां प्रव्रजन्ति न खलु तथा शक्नोमि प्रव्रजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके प्रतिपत्तुं, ततो भगवानाह-यथासुखं देवानांप्रिय! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति॥
शतकं-१८ उद्देशकः-१० समाप्तः ॥१॥ अष्टादशशतवृत्तिर्विहिता वृत्तानि वीक्ष्य वृत्तिकृताम् ।
प्राकृतनरो ह्यदृष्टं न कर्म कर्तुप्रभुर्भवति॥
शतकं-१८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे अष्टादशशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
(शतकं-१९) वृ. व्याख्यातमष्टादशशतम्, अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसङ्ग्रहाय गाथामू. (७५८) लेस्सा य १ गब्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६
भवणा ७ य । निव्वत्ति ८ करण ९ वणचरसुरा १० य एगूणवीसइमे।
वृ. 'लेस्से'त्यादि, तत्र 'लेस्सा यत्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक . एवोच्यते, एवमन्यत्रापि १ चशब्दः समुच्चये, 'गब्भ'त्ति गर्भाभिधायंको द्वितीयः २।
'पुढवित्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः ३ 'महासव'त्ति नारका महाश्रवा महाक्रिया इत्याद्यर्थपरश्चतुर्थः ४ । 'चरम'त्ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः परमा
महास्थितयोमहाकर्मतरा इत्याद्यर्थप्रतिपादनार्थपञ्चमः ५, 'दीवत्तिद्वीपाद्यभिधानार्थषष्ठः६।।
‘भवणा य'त्ति भवनाद्यर्थाभिधानार्थ सप्तमः ७ 'निव्वत्ति'त्ति निर्वृत्ति-निष्पत्ति शरीरादेस्तदर्थोऽष्टमः ८ । 'रण'त्ति करणार्थो नवमः ९ ‘वणचरसुरा यत्ति वनचरसुरा-व्यन्तरा देवास्तद्वक्तव्यतार्थो दशम इति १०।
-शतकं-१९ उद्देशकः-१:मू. (७५९) रायगिहे जाव एवं वयासी-कतिणं भंते ! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा-एवं जहा पन्नवणाए चउत्थो लेसुद्देसओ भाणियव्वो निरवसेसो । सेवं भंते २॥
वृ.तत्रप्रथमोद्देशकस्तावद्वयाख्यायते, तस्यचेदमादिसूत्रम्-'रायगिहे'इत्यादि ‘पन्नवणाए चउत्थोलेसुद्देसओभाणियव्वोति प्रज्ञापनायाश्चतुर्थो लेश्यापदस्य सप्तदशस्योद्देशको लेश्योद्देशक इह स्थाने भणितव्यः, सच-'कण्हलेसा जाव सुक्कलेसा'इत्यादिरिति
शतकं-१९ उद्देशकः-१ समाप्तः
-शतकं-१९ उद्देशकः-२:वृ. अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org