SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ शतकं - १८, वर्ग:, उद्देशकः - १ च सिद्धत्व पर्यायानपगमादिति । सञ्ज्ञिद्वारे - ' सन्ना जहा आहारओ'त्ति सञ्ज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसञ्ज्ञयपिउभयनिषेधवांश्च जीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति । लेश्याद्वारे-‘सलेसा’इत्यादि, 'जहा आहारओ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति ॥ दृष्टिद्वारे - 'सम्मद्दिट्ठी जहा अनाहारओ' त्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्व प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः ये त्वन्यथा तेऽचरमा इति । २४३ 'मिच्छादिट्ठी जहा आहारओ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः यो हि जीवो निर्वास्यति स मिथ्याष्टित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्नलप्स्यते स चरमोऽन्यस्त्वचरमः, 'सम्मामिच्छे' त्यादि, 'एगिंदियविगलिंदियवज्रं ति एतेषां किल मिश्रं न भवतीति नारकादिदण्डके नैते मिश्रालापके उचारयितव्या इत्यर्थः, अस्य चोल क्षणत्वेन सम्यग्ध्ष्टयालापके एकेन्द्रियवर्जमित्यपि द्रष्टव्यं एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयं, यथा सञ्ज्ञिपदे एकेन्द्रियादयः असञ्ज्ञिपदे ज्योतिष्कादय इति, 'सिय चरिमे सिय . अचरिमे' सम्यग्मिथ्यादृष्टि स्याच्चरमो यस्य तत्प्राप्ति पुनर्न भविष्यति, इतरस्त्वचरम इति । संयतद्वारे'संजओ' इत्यादि, अयमर्थः - संयतो जीवः स्याच्चरमो यस्य पुनः संयमो न भविष्यति अन्यस्त्वचरमः, एवं मनुष्योऽपि यत एतयोरेव संयतत्वमिति 'अस्संजओऽवि तहेव 'त्ति असंयतोऽपि तथैव यथाऽऽहारकः स्याच्चरमः स्यादचरम इत्यर्थः एवं संयतासंयतोऽपि केवलं जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदेष्वेवायं वाच्यः, अत एवाह - 'नवरं जस्स जं अत्थि'त्ति, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति । कषायद्वारे-‘सकसाई’त्यादि, अयमर्थः - सकषायः सभेदो जीवादिस्थानेषु स्याच्चरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यः सकषायित्वं नारकाद्युपेतं पुनर्न प्राप्स्यति स चरमोऽन्यस्त्वचरमः 'अकसायी’'त्यादि 'अकषायी' उपशान्तमोहादि सच जीवो मनुष्यः सिद्धश्च स्यात्, तत्र जीवः सिद्धश्चारमो यतो जीवस्याकषायित्वं प्रतिपतितम्यवश्यम्भावि, सिद्धस्य तु न प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति । ज्ञानद्वारे - 'नाणी जहा सम्मदिट्ठित्ति, अयमिह सम्यग् ष्टिष्टान्तलब्धोऽर्थः - जीवः सिद्धश्चारमः जीवो हि ज्ञानस्य सतः प्रतपातेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे चरमा अन्यथा त्वचरमा इति, 'सव्वत्थ' त्ति सर्वेषु जीवादिसिद्धान्तेषु पदेषु एकेन्द्रियवर्जितेष्विति गम्यं, ज्ञानभेदापेक्षयाऽऽह ‘आभिनिबिहिए’इत्यादि, 'जहा आहारओ'त्तिकरणात् स्याच्चरमः स्यादचरम इति दृश्यं, तत्राभिनिबोधिकादिज्ञानं यः केवलज्ञानप्राप्तया पुनरपि न लप्स्यते स चरमोऽन्यस्वत्वचरमः, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003310
Book TitleAgam Suttani Satikam Part 06 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy