________________
भगवती अङ्गसूत्रं (२) १७/-/२/७०२
सच्चेवणं भंते! से जीवे पुव्वामेव अरूवी भवित्ता पभू रूविं विउव्वित्ताणं चिट्ठित्तए ?, नो तिणट्टे० जाव चि०, गो० ! अहमेयं जाणामि जाव जन्नं तहागयस्स जीवस्स अरुवस्स अकम्म० अराग० अवेदस्स अमोहस्स अलेसरस असरीरस्स ताओ सरीराओ विप्पमुक्किस्स नो एवं पन्नायति, तं०- कालत्ते वा जा लुक्खत्ते वा । से तेणट्टेणं जाव चिट्ठित्तए वा ।। सेवं भंते ! २ त्ति ॥
वृ. 'अहमेयं जाणामि' त्ति अहम् 'एतत्' वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु जानामि विशेषपरिच्छेदेनेत्यर्थः 'पासामि' त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः 'बुज्झामि 'त्ति बुद्धये श्रद्दधे, बोधेः सम्यग्दर्शनपर्यायत्वात्, किमुक्तं भवति ? - 'अभिसमागच्छामि' त्ति अभिविधिना साङ्गत्येन चावगच्छामि सर्वै परिच्छित्तिप्रकारैः परिच्छिनद्म, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तद्दर्शयन्नाह
'मए' इत्यादि, किं तदभिसमन्वागतम् ? इत्याह- 'जन्न' मित्यादि, 'तहागयस्स' त्ति तथागतस्य तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स' त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत् ? इत्याह- 'सकम्मस्स' त्ति कर्म्मपुद्गलसम्बन्धादिति भावः, एतदेवकथमित्यत आह-‘सरागस्स’त्ति रागसम्बन्धात् कर्मबन्ध इत भावः, रागश्चेह मायालोभलक्षणो ग्राह्यः, तथा 'सवेयस्स'त्ति यादिवेदयुक्तस्य, तथा 'समोहस्स' त्ति इह मोहः - कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा 'सलेसस्स ससरीरस्स' त्ति व्यक्तं 'ताओ सरीराओ अविप्पमुक्कस्स'त्ति येन शरीरेण सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य ' एवं 'ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा - कालत्वं वेत्यादि, यतस्तस्य कालत्वादि प्रज्ञायतेऽतो नासौ तथागतो. जीवो रूपी सन्नरूपमात्मानं विकुर्व्य प्रभुः स्थातुमिति ।
एतदेव विपर्ययेण दर्शयन्नाह - 'सच्चेव णं भंते!' इत्यादि, 'सच्चेव णं भंते! से जीवे 'त्तियो देवादिरभूत स एवासौ भदन्त ! जीवः 'पूर्वमेव' विवक्षितकालात् 'अरूवि’त्ति अवर्णादि 'रूविं' ति वर्णादिमत्वं 'नो एवं पन्नायति'त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्वात्, असत्वं च मुक्तस्य कर्म्मबन्धहेत्वभावेन कर्म्माभावात्, तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभवतीति ॥
२३०
शतकं - १७ उद्देशकः-२ समाप्तः
-: शतकं - १७ उद्देशकः-३ :
वृ. द्वितीयोद्देशकान्ते रूपिताभवनलक्षणो जीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् -
मू. (७०३) सेलेसिं पडिवन्नए णं भंते! अनगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति ?, नो तिणट्टे समट्टे, नन्नत्थेगेणं परप्पयोगेणं ॥
कतिविहाणं भंते! एयणा पन्नत्ता ?, गोयमा ! पंचविहा एयणा पन्नत्ता, तंजहा - दव्वेयणा खेत्यणा कालेयणा भवेयणा भावेयणा, दव्वेयणा णं भंते! कतिविहा प० ?, गोयमा ! चउव्विहा प०, तंजहा - नेरइयदव्वेयणा तिरिक्ख० मणुस्स० देवदव्वेयणा ।
सेकेण० एवं बुच्चइ - नेरइयदव्वेयणा २ ?, गोयमा ! जन्नं नेरइया नेरइयदव्वे वट्टिसु वा वट्टंति वा वट्टिस्संति वा ते णं तत्थ नेरतिया नेरतियदव्वे वट्टमाणा नेरइयदव्वेयणं एइंसु वा एयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org