________________
भगवती अङ्गसूत्रं १/-/-/
व्याख्यास्ताः प्रज्ञाप्यन्ते-प्ररूप्यन्ते भगवता सुधर्म्मस्वामि जम्बूनामानमभियस्याम् १ । अथवा विविधतया विशेषेण वा आख्यायन्त इति व्याख्याः- अभिलाप्यपदार्थवृत्तयस्ताः प्रज्ञाप्यन्ते यस्याम् २ ।
व्याख्यानाम्-अर्थप्रतिपादनानां प्रकृष्टाः ज्ञप्तयो- ज्ञानानि यस्यां सा व्याख्याप्रज्ञप्ति ३ । अथवा व्याख्यायाः- अर्थकथनस्य प्रज्ञायाश्च तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति-प्राप्ति आत्तिर्वा आदानं यस्याः सकाशादसौ व्याख्याप्रज्ञाप्तिव्याखयाप्रज्ञात्तिर्वा ४-५ । व्याख्याप्रज्ञाद्वा-भगवतः सकाशादातिरात्तिर्वा गणधरस्य यस्याः सा तथा ६ ।
६
अथवा विवाहा-विविधा वा प्रमाणाबाधिताः प्रज्ञा आप्यन्ते यस्याः; विवाहा चासौ विबाधा चासौ वा प्रज्ञप्तिश्च-अर्थप्रज्ञप्तिश्चार्थ प्ररूपणा विवाहप्रज्ञप्तिर्विवाहप्रज्ञाप्ति विबाधप्रज्ञाप्तिर्विबाधप्रज्ञप्तिर्वा ७-८-९-१० । इयं च भगवतीत्यपि पूज्यत्वेनाभिधीयते इति ।
इह व्याख्यातारः शास्त्रव्याख्यानारम्भे फलयोगमङ्गलसमुदायार्थादीनि द्वाराणि वर्णयन्ति, तानि चेह व्याख्यायां विशेषावश्यकादिभ्योऽवसेयानि ।
शास्त्रकारास्तु विघ्नविनायकोपशमननिमित्तं विनेयजनप्रवर्त्तनाय च (मङ्गलं ) शिष्टजनसमयसमाचरणाय वा मङ्गलाभिधेयप्रयोजनसम्बन्धानुदाहरन्ति, तत्र च सकलकल्याणकारणतयाऽधिकृतशास्य श्रेयोभूतत्वेन विघ्नः संभवतीति तदुपशमनाय मङ्गलान्तरव्यपोहेन भावमलमुपादेय, मङ्गलान्तरस्यानैकान्तिकत्वादनात्यन्तिकत्वाच्, भावमङ्गलस्य तु तद्विपरीततयाऽभिलषितार्थसाधनसमर्थत्वेन पूज्यत्वात्, आह च
॥१॥
-
“किं पुण तमणेगतियमञ्चंतं च ण जओऽभिहाणाई । तव्विवरीयं भावे तेण विसेसेण तं पुत्रं ॥
भावमङ्गलस्य च तपःप्रभृतिभेदभिन्नत्वेनानेकविधत्येऽपि परमेष्ठिपञ्चकनमस्कारूपं विशेषेणोपादेयं, परमेष्ठिनां मङ्गलत्वालोकोत्तमत्वशरण्यत्वाभिधानात्, आह च "चत्तारि मंगल” मित्यादि, तन्नमस्कारस्य च सर्वपापप्रणाशकत्वेन सर्वविघ्नोपशमहेतुत्वात् आह च “एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥
-
॥१॥
अत एवायं समस्तश्रुतस्कन्धानामादावुपादीयते, अत एव चायं तेषामभ्यन्तरतयाऽभिधीयते, यदाह- 'सो सव्वसुयक्खंधऽ ब्यंतरभूओ"त्ति, अतः शास्त्रस्यादावेव परमेष्ठिपञ्चकनमस्कारमुपदर्शयन्नाह
-: शतकं-१ उद्देशकः-१ :
मू. (१) नमो अरहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो (लोए) सव्वसाहूणं ।
वृ. तत्र नम इति नैपातिकं पदं द्रव्यभासङ्कोचार्थम्, आह च - "नेवाइयं पयं दव्वभावसंकोयण पयत्थो” 'नमः' करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः । केभ्य इत्याह‘अर्हद्भयः’ अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यरूपां पूजामर्हन्तीत्य- र्हन्तः, यदाह119 11 “अरिहंति वंदणनमंसणाणि अरिहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्चंति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org