SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ५ भगवती अङ्गसूत्रं सटीकं ( अपरनाम - व्याख्या प्रज्ञप्त्यङ्गसूत्र-सटीकं) (मूलम् + अभयदेवसूरिविरचिता वृत्तिः) ॥२॥ ॥१॥ सर्वज्ञमीश्वरमनन्तमसङ्गमग्र्यं, सार्व्वीयमस्मरमनीशमनीहमिद्धम् । सिद्धिं शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितरिपुं प्रयतः प्रणौमि ॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्म्मणे । सर्वानुयोगवृद्धेभ्यो, वा सर्वविदस्तथा ॥ एतट्टीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाङ्गं विवृणोमि विशेषतः किञ्चित् ।। व्याख्यातं समवायाख्यं चतुर्थमङ्गम्, अथावसरायातस्य 'विवाहपन्नत्ति' त्तिसञ्ज्ञितस्य पञ्चमाङ्गस्य समुन्नतजयकुञ्जरस्येव ललितपदपद्धतिप्रबुद्धजनमनोरञ्जकस्य उपसर्गनिपाताव्यवस्वरूपस्य घनोदारशब्दस्य लिङ्गविभक्तियुक्तस्य सदाख्यातस्य सल्लक्षणस्य देवताधिष्ठितस्य सुवर्णमण्डितोद्देशकसय नानाविधाद्भुतप्रवरचरितस्य षटत्रिंशत्प्रश्नसहस्रप्रमाणसूत्रदेहस्य चतुरनुयोगचरणस्य ज्ञानचरणनयनुगलस्य द्रव्यास्तिकपर्यायास्तिकनयद्वितयन्दमुशलस्य निश्चयव्यवहारनयसमुन्नतकुम्भद्वयस्य प्रस्तावनावचनरचनाप्रकाण्डशुण्डादण्स्य निगमनवचनातुच्छपुच्छस्य कालाद्यष्टप्रकारप्रवचनोपचारचारुपरिकरस्य उत्सर्गापवादसमुच्छलदतुच्छघण्टायुगलघोषस्य यशःपटहपटुप्रतिरवापूर्णदिकचक्रवालस्य स्याद्वादविशदाङ्कुशवशीकृतस्य विविधहेतुहेतिसमूहसमन्वितस्य मिथ्यात्वाज्ञानाविरमणलक्षणरिपुबलदलनाय श्रीमन्महावीरमहाराजेन नियुक्तस्य बलनियुक्तककल्पगणनायकमतिप्रकल्पितस्य मुनियोधैरनाबाधमधिगमाय पूर्वमुनिशिल्पिकल्पितोर्बहुप्रवरगुणत्वेऽपि ह्रस्वतया महातामेव वाञ्छितवस्तुसाधनसमर्थयोर्वृत्तिचूर्णिनाडिकयोस्तदन्येषांचजीवाभिगमादिविविधविवरणदवरकलेशानां संघट्टनेन बृहत्तरा अत एवामहतामप्युपकारिणी हस्तिनायकादेशादिव गुरुजनवचनात्पूर्वमुनिशिल्पि - कुलोत्पनैरस्माभिर्नाडिकेवेयं वृत्तिरारभ्यते, इति शास्त्रप्रस्तावना । ॥३॥ शतकं - 9 । अथ 'विवाहपन्नत्ति 'त्तिकः शब्दार्थ ?, उच्यते, विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः आ-अभिविधिना कथञ्चिन्निखिलज्ञेयव्याप्तया मर्यादया वा परस्परासंकीर्णलक्षणाभिधान रूपया ? ख्यानानि भगवतो महावीरस्य गौतमादिविनेयान् प्रति प्रश्नतपदार्थप्रितपादनानि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy