________________
शतकं - ९, वर्ग:, उद्देशकः - ३२
अहवा एगे रयण० एगे पंक० एगे घूम० एगे अहेसत्तमाए होज्जा १८ ।
अहवा एगे रयण० एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा १९ अहवा एगे रयण० एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा २० अहवा एगे सक्कर० एगे वालुय० एगे पंक० एगे घूमप्पभाए होज्जा २१ एवं जहा रयणप्पभाए उवरिमाओ पुढवीओ चारियाओ तहा सक्करप्पभाएवि उवरिमाओ चारियव्वाओ जाव अहवा एगे सक्कर० एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा ३० /
अहवा एगे वालुय० एगे पंक० एगे घूम० एगे तमाए होज्जा ३१ अहवा एगे वालुय० एगे पंक० एगे घूमप्पभाए एगे अहेसत्तमाए होज्जा ३२ अहवा एगे वालुय० एगे पंक० एगे तमाए एगे अहेसत्तमाए होज्जा ३३ अहवा एगे वालुय० एगे घूम० एगे तमाए एगे अहेसत्तमाए होज्जा ३४ अहवा एगे पंक० एगे घूम० एगे तमाए एगे अहेसत्तः माए होज्जा ३५ ।
४७३
वृ. 'कइविहे ण' मित्यादि, 'पवेसण 'त्ति गत्यन्तरादुवृत्तस्य विजातीयगतौ जीवस्य प्रवेशनं, उत्पाद इत्यर्थः, 'एगेभंते! नेरइए' इत्यादी सप्त विकल्पाः ।
‘दो भंते! नेरइए’त्यादावष्टाविंशतिर्विकल्पास्तत्र रत्नप्रभाद्याः सप्तापि पृथिवीक्रमेण पट्टादौ व्यवस्थाप्याक्षसञ्चारणया पृथिवीनामेकत्वद्विकसंयोगाभ्यां तेऽवसेयाः, तत्रैकैकपृथिव्यां नारकद्वयोत्पत्ति, लक्षणैकत्वे सप्त विकल्पाः पृथिवीद्वये नारकद्वयोत्पत्तिलक्षणद्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशति 'एवं एक्केक्का पुढवी छड्डेयव्वे 'ति अक्षसञ्चारणापेक्षयेदमुक्तमिति
‘तिन्नि भंते ! नेरइए’त्यादौ चतुरशीतिर्विकल्पाः, तथाहि - पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेको द्वावित्यनेन नारकातोपादविकल्पेन रत्नप्रभया सह शेषाभि क्रमेण चारिताभिर्लब्धाः षड्, द्वावेक इत्यनेनापि नारकोत्पादविकल्पने षडेव, तदेते द्वादश १२, एवं शर्कराप्रभया पञ्च पञ्चेति दश एवं वालुकाप्रभयाऽष्टौ पङ्कप्रभया षट् घूमप्रभया चत्वारः तमः प्रभया द्वाविति, द्विकयोगे द्विचत्वारिंशत्, त्रिकयोगे तु तासां पञ्चत्रिंशद्विकल्पास्ते चाक्षसञ्चारणया गम्यास्तदेवमेते सर्वेऽपि चतुरशीतिरिति । ७ । ४२ । ३५ ॥ ८४ ॥
'चत्तारि भंते ! नेरइया' इत्यादौ दशोत्तरे द्वे शते विकल्पानां, तथाहि - पृथिवीनामेकत्वे सप्त विकल्पाः, द्विकसंयोगे तु तासामेकस्त्रय इत्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षट्, द्वौ द्वावित्यनेनापि षट्, त्रय एक इत्यनेनापि षडेव, तदेवमेतेऽष्टादश, शर्कराप्रभया तु तथैव त्रिषु पूर्वोक्तनारकोत्पादविकल्पेषु पञ्च पञ्चेति पञ्चदश, एवं वालुकाप्रभया चत्वारवश्चत्वार इति द्वादश, पङ्कप्रभया त्रयस्त्रय इति नव, घूमप्रभया द्वौ द्वाविति षट्, तमःप्रभयैकैक इति त्रयः, तदेवमेते द्विकसंयोगे त्रिषष्टिः ६३ ।
तथा पृथिवीनां त्रिकयोगे एक एको द्वौ चेत्येवं नारकोत्पादविकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभि क्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकश्चेत्येवं नारकोत्पादविकल्पांन्तरेऽपि पञ्च, द्वावेक एकश्चेत्येवमपि नारकोत्पादविकल्पान्तरे पञ्चैवेति पञ्चदश १५, एवं रत्नप्रभावालुकाप्रभाभ्यां सहोत्तराभि क्रमेण चारिताभिर्लब्धा द्वादश १२ ॥
एवं रत्नप्रभापङ्कप्रभाभ्यां नव, रत्नप्रभाघूमप्रभाभ्यां षट्, रत्नप्रभातमः प्रभाभ्यां त्रयः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International