________________
शतकं -९,
वर्ग:-, उद्देशकः - ३१
४६९
णं भंते! सिस्सावि पव्वावेज वा मुंडावेज वा ?, हंता पव्वावेज वा मुण्डावेज वा, तस्स णं भंते! पसिस्सावि पव्वावेज्ज वा मुंडावेज वा ?, हंता पव्वावेज्ज वा मुंडावेज वा ।
से णं भंते! सिज्झति बुज्झति जावं अंतं करेइ ?, हंता सिज्झइ वा जाव अंतं करेइ तस्स णं भंते! सिस्सावि सिज्झति जाव अंतं करेन्ति ?, हंता सिज्झति जाव अंतं करेन्ति, तस्स णं भंते ! पसिस्वावि सिज्झंति जाव अंतं करन्ति, एवं चेव जाव अंतं करेन्ति ।
से णं भंते! किं उड्डुं होज्जा जहेव असोच्चाए जाव तदेक्कदेसभाए होज्जा । ते णं भंते ! एगसमएणं केवतिया होज्जा ?, गोयमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं १०८, से तेणट्टेणं गोयमा ! एवं बुच्चइ-सोच्चाणं केवलिस्स वा जाव केवलिउवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेज्जा अत्थेगतिए नो केवलनाणं उप्पाडेज्जा। सेवंभंते ! २ त्ति ॥ वृ. 'सोच्चाण' मित्यादि, अथ यथैव केवल्यादिवचनाश्रवणावाप्तबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावाप्तबोध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह
‘तस्स ण’मित्यादि, ‘तस्स’त्ति यः श्रुत्वा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य 'अट्ठमं अट्ठमेण' मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साघोरवधिज्ञानमुत्पद्यत इति ज्ञापनार्थः मिति, 'लोयप्पमाणमेत्ताई' ति लोकस्यय यतप्रमाणं तदेव मात्रा - परिमाणं येषां तानि तथा । अथैनमेव लेश्यादिभिर्निरूपयन्नाह
'से णं भंते !' इत्यादि, तत्र 'से णं' ति सोऽनन्तरोक्तविशेषणोऽधिज्ञानि 'छसुलेसासु होज 'त्ति यद्यपि भावेलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु लभते सम्यक्त्व श्रुतवत्, यदाह - 'सम्मत्तसुयं सव्वासु लब्भइ' त्ति तल्लाभे चासौ षट्स्वपि भवतीत्युच्यत इति, 'तिसुव' त्ति अवधिज्ञानस्याद्यज्ञानद्वयाविनाभूतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु भवेदिति, 'चउसु वा होज्ज' त्ति मतिश्रुतमनः पर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्यभावाच्चतुर्षु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति ।
'सवेयएवा' इत्यादि, अक्षीणवेदस्याधिज्ञानोत्पत्तौ सवेदकः सन्नवधिज्ञानी भवेत्, क्षीणवेदसय चावधिज्ञानोत्पत्ताववेदकः सन्नयं स्यात, 'नो उवसंतवेयए होज्ज' त्ति उपशान्तवेदोऽयमवधिज्ञानी न भवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति । 'सकसाई वा' इत्यादि, यः कषायाक्षये सत्यवधिं लभते स सकषायी सन्नवधिज्ञानी भवेत्, यस्तु कषायक्षयेऽसावकषायीति 'चउसु वे 'त्यादि, यद्यक्षीणकषायः सन्नविधं लभते तदाऽयं चारित्रयुक्तत्वाच्चतुर्षु सञ्जवलनकषायेषु भवति, यदा तु क्षपक श्रेणिवर्त्तित्वेन सञ्जवलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषु सञ्जवलनमानादिषु, यदा तु तथैव सञ्जवलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति । शतकं - ९ उद्देशकः - ३१ समाप्तः
-: शतकं - ९ उद्देशकः-३२:
वृ. अनन्तरोद्देशके केवल्यादिवचनं श्रुत्वा केवलज्ञानमुत्पादयेदित्युक्तम्, इह तु येन केवलिवचनं श्रुत्वा तदुत्पादितं स दर्श्यते, इत्येवंसंबद्धस्य द्वात्रिंशत्तमोद्देशकस्येदमादिसूत्रम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org