SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं १/-/१/२५ व्याप्ताः,आङशब्दोऽत्रमर्यादावृत्ति, तथाक्वचित्तु 'विइइन्न'त्ति तैरेववृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, उवत्थड'त्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ्च आच्छदनार्थस्त-तश्चोत्पतद्भिर्निपतद्भिश्चानवरतक्रीडासक्तैरुपर्युपरिच्छदिताः, संथड'त्ति संस्तीर्णा, संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित्तैरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चलभिराच्छदिता इति, 'फुड'त्ति 'स्पृष्टाः' आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वाप्रकाशा व्यन्तरसुरनिक-रकिरणविसरनिराकृतान्धकारतया, 'अवगाढगाढ'त्ति गाढं-बाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरघोऽपिव्याप्ताः, गाढावगाढा इतिवाच्ये प्राकृतत्वादवगाढगाढाः, इहच देवत्वयोग्यस्यजीवस्याभिधानेनतदयोग्यः सामर्थ्यादवसीयतएवेति अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति । ___अथोद्देशकनिगमनार्थमाह-'सेवं भंते सेवंभंतेत्ति, यन्मया पृष्टंतद्भगवद्भिः प्रतिपादितं तदेवमित्थमेव भदन्त! नान्यथा, अनेन भगद्वचने बहुमानंदर्शयति, द्विर्वचनंचेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति । शतकं-१ उद्देशकः-१ समाप्त -शतकं-१ उद्देशकः-२:वृ. व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः-प्रथमोद्देशके चलनादिधर्मकं कर्म कथितं तदेवेह निरूप्यते, तथोद्देशकार्थसङग्रहिण्यां 'दुक्खे'त्ति यदुक्तां तदिहोच्यते, तत्प्रस्तावनार्थं च पूर्वोक्तमेव ग्रन्थं स्मरन्नाह मू. (२६) रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ?, गोयमा! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ, से केणटेणं भंते ! एवं वुच्चइअत्थेगइयं वेदेइ अत्थेगइयंनो वेएइ ?, गोयमा! उदिन्नं वेएइअनुदिन्नं नो वेएइ, से तेणढेणं एवंदुच्चइ-अत्थेगइयं वेएइ अत्यंगतियं वो वेएइ । एवं चउव्वीसदंडएणं जा वेमाणिए। जीवाणंभंते! सयंकडंदुक्खं वेएन्ति?, गोयमा! अत्थेगइयं वेयन्ति अत्थेगइयंनोवेयन्ति, से केणटेणं?, गोयमा ! उदिन्नं वेयन्ति नो अणुदिन्नं वेयन्ति, से तेणटेणं, एवं जाव वेमाणिया जीवेणं भंते ! सयंकडं आउयं वेएइ ? गोयमा! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ जहा दुक्खेणं दो दंडा तहा आउएणवि दो दंडगा एगत्तपुहुत्तिया। एगत्तेणं जाव वेमाणिया पुहुत्तेणवि तहेव । वृ. 'रायगिहे'इत्यादि पूर्ववत्, ‘जीवे णमित्यादि तत्र ‘सयंकडं दुक्खंति यत्परकृतं तन्न वेदयतीतिप्रतीतमेवातः स्वयंकृतमितिपृच्छतिस्म ‘दुक्खं'तिसांसारिकंसुखमपिवस्तुतोदुःखमिति दुःखहेतुत्वाद् 'दुःखं कर्म वेदयतीति, काकुपाठात्प्रश्नः, निर्वचनंतुयदुदीर्णंतद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णं वेदयति नानुदीर्णं, नच बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येकं वेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म "कडाण कम्माण न मोक्खो अत्थि" इति वचनादिति । एवं 'जाव वेमाणिए' इत्यनेन चतुर्विंसतिदण्डकः सूचितः, स चैवम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy