SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ८/-/२/३९२ उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणाविमोच्यते- 'तिन्न अन्नाणाई भयणाए’त्ति। ‘सिद्धिगइयाण' मित्यादि, यथा सिद्धाः केवलज्ञानिन एव एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धाना सिद्धिगतिकानां चान्तरगत्यभावान्न विशेषोऽस्ति तथाऽपीह गतिद्वारबलायातत्वात्त दर्शिताः, एवं द्वारान्तरेष्वपि परस्परान्तर्भावेऽपि तत्तद्विशेषापेक्षयाऽपौनरुक्त्यं भावनीयमिति । अथेन्द्रियद्वारे 'सइंदिये' त्यादि, 'सेन्द्रियाः 'इन्द्रियोपयोगवन्तस्ते च ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया स्यात् द्वे स्यात् त्रीणी स्याच्चत्वारि, केवलज्ञानं तु नास्ति तेषाम्, अतीन्द्रियज्ञानत्वात्तस्य, द्वयादिभावश्च ज्ञानानां लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानम्, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव स्यात् द्वे स्यात्त्रीणीति, 'जहा पुढविकाइय'त्ति एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्ते च द्वयज्ञाना एवेत्यर्थः । 'बेइंदिये 'त्यादि, एषां द्वे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः षडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति । 'अनिंदिय'त्ति केवलिनः । कायद्वारे - 'सकाइयाण' मित्यादि, सह कायेन - औदारिकादिना शरीरेण पृथिव्यादिषट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्यग्ध्शां पञ्च ज्ञानानि मिथ्याद्दशां तु त्रीण्यज्ञानानि भजनया स्युरिति । 'अकाइया णं ति नास्ति कायः-उक्तलक्षणो येषां तेऽकायास्त एवाकायिकाः सिद्धाः । ३७० सूक्ष्मद्वारे - 'जहा पुढविकाइय' त्ति द्वयज्ञानिनः सूक्ष्मा मिथ्याष्टित्वादित्यर्थः 'जहा सकाइय'त्तिबादराः केवलिनोऽपि भवन्तीतिकृत्वा ते सकायिकवद्भजनया पञ्चज्ञानिनस्त्रयज्ञानि - नश्च वाच्या इति । पर्याप्तकद्वारे 'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः । पर्याप्तकद्वार एव चतुर्विंशतिदण्डके पर्याप्तनारकाणां 'तिन्नि अन्नाणा नियम 'त्ति अपर्याप्तकानामेवासञ्ज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । ' एवं जाव चउरिंदिय' त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका द्वयज्ञानिन एवेत्यर्थः । 'पज्जत्ता णं भंते ! पंचिंदियतिरिक्खे' त्यादि, पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिर्विभङ्गो वा केषाञ्चित्स्यात्केषाञ्चित्पुनर्नेति त्रीनि ज्ञानान्यज्ञानानि वा द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति | 'बेइंदियाणंदो नाणे 'त्यादि, अपर्याप्तकद्वीन्द्रियादीनां केषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वेज्ञाने केषाञ्चित्पुनस्तस्यासद्भावाद्दे एवाज्ञाने । अपर्याप्तकमनुष्याणां पुनः सम्यग्ध्शामवधिभावे त्रीनि ज्ञानानि यथा तीर्थः कराणां, तदभावे तु द्वेज्ञाने, मिथ्याध्शांतु द्वेएवाज्ञाने, विभङ्गस्यापर्याप्तकत्वे तेषामभावात्, अत एवोक्तं 'तिन्नि नाणाई भयणाए दो अन्नाणाई नियम' त्ति । 'वाणमंतरे' त्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना द्वयज्ञानात्र्यज्ञाना वा वाच्याः, तेष्वप्यसञ्ज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावात् शेषाणां चावधेर्विभङ्गस्य वा भावात् 'जोइसिए' त्यादि, एतेषु हि सञ्ज्ञिभ्य एवोत्पद्यन्ते, तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीनि ज्ञानान्यज्ञानानि वा स्युरिति । 'नोपज्जत्तगनो अपजत्तग' त्ति सिद्धाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy