SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्गः-, उद्देशकः-१ ३५७ सुब्भिगंधपरिणए दुब्भिगंधपरिणए, जइरसपरिणए किं तित्तरसपरिणए? ५, पुच्छा, गोयमा ! तित्तरसपरिणए जाव महुररसपरिणए, जइ फासपरिणए किं कक्खडफासपरिणएजाव लुखफासपरिणए ? गोयमा ! कक्खडफासपरिणए जाव लुक्खफासपरिणए, जइ संठाणपरिणए पुच्छा, गोयमा! परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा॥ वृ. 'एगे'इत्यादि, ‘मणपओगपरिणएत्तिमनस्तया परिणतमित्यर्थः ‘वइप्पयोगपरिणए'त्ति भाषाद्रव्यं काययोगेन गृहीत्वा वा-योगेन निसृज्यमानं वाकप्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए'त्ति औदारिकादिकाययोगेन गृहीतमौदारिकादिवर्गणाद्रव्यमौदारिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, ‘सरमणे'त्यादि सद्भूतार्थःचिन्तननिबन्धनस्य मनसः प्रयोगः सत्यमनः प्रयोग उच्यते, एवमन्येऽपि नवरं मृषा-असद्भूतोऽर्थः सत्यमुषा-मिश्रो यथा पञ्चसु दारकेषुजातेषुदश दारका जाता इति, असत्यमृषा-सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 'आरंभसच्चे' त्यादि, आरम्भो-जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनःप्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तत्रापि नवामनारम्भो-जीवानुपघातः ‘सारंभ'त्ति संरम्भो-वधसङ्कल्पः समारम्भस्तु परिताप इति। 'ओरालिए'त्यादि, औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वेनोपचीयमानत्वाद् काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायप्रयोगः स तथा, अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत्परिणतं तत्तथा, 'ओरालियमिस्सासरीरकायप्पयोगपरिणय'त्ति औदारिकमुत्पत्तिकाले सम्पूर्ण सत् मिश्रंकार्मणेनेति औदारिकमिश्रं तदेवौदारिकमिश्रकंतल्लक्षणं शरीरमौदारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्रकशरीरस्य वा यः कायप्रयोगः स औदारिकमिश्रकशरीरकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह॥१॥ “जोएण कम्मएणं आहारेई अनंतरंजीवो। तेण परं मीसेणंजाव सरीरस्स निप्फत्ती ॥" एवं तावत् कार्मणेनौदारिकशरीरस्य मिश्रता उत्पत्तिमाश्रित्य तस्य प्रदानत्वात्, यदा पुनरौदारिकशरीरी वैक्रियलब्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदा औदारिककाययोग एव वर्तमानःप्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद् वैक्रियशलीरपर्याप्तया न पर्याप्तिं गच्छति तावद्वैक्रियेणौदारिकशरीरस्य मिश्रता, प्रारम्भकत्वेन तस्य प्रधानत्वात्, एवमाहारकेणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति, 'वेउब्वियसरीरकायप्पओगपरिणए'त्ति इह वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्त कस्येति। _ 'वेउब्वियमीसासरीरकायप्पओगपरिणए'त्ति, इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारकेषूत्पद्यमानस्यार्याप्तकस्य, मिश्रताचेह वैक्रियशरीरस्य कार्मणेनैव, लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य मिश्रतेति ‘आहारगसरीरकायप्पयोगपरिणए'त्तिइहाहारकशरीरकायप्रयोगआहारकशरीरनिवृत्ती सत्यां तदानीं तस्यैव प्रधानत्वात् । 'आहारगमीसासरीरकायप्पयोगपरिणए'त्तिइहाहारकमिश्रशरीरकायप्रयोगआहारकस्यौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy