________________
३४४
भगवतीअङ्गसूत्रं ७/-/९/३७५ प्रहरणकोशादिरूपा उपकरणंच-कङ्कटादिकं यस्य स तथा, 'पडिरहंति रथं प्रति 'आसुरुत्ते'त्ति आशु-शीघ्रं रुप्तः-कोपोदयाद्विमूढः ‘रूप लुप विमोहने' इति वचनात्, स्फुरितकोपलिङ्गो वा, यावत्करणादिदंश्यं रुठे कुविएचंडिक्किए'त्तितत्र ‘रुष्टः' उदितक्रोधः 'कुपितः' प्रवृद्धकोपोदयः 'चाण्डिक्यितः' सञ्जातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना दीप्यमान इव एकार्थिःकावते शब्दाः कोपप्रकर्षप्रतिपादनार्थःमुक्ताः।
'ठाणं'तिपादन्यासविशेषलक्षणं ठाति'त्ति करोति 'आययकन्नाययंतिआयतः-आकृष्टः सामान्येन स एव कर्णायतः-आकर्णमाकृष्ट आयतकायतस्तम्, ‘एगाहच्चंति एका हत्या-हननं प्रहारो यत्रजीवितव्यपरोपणेतदेकाहत्यं तद्यथा भवति, 'कूडाहच्चं तिकूटेइवतथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-आहननंयत्रतत् कूटाहत्यम् ‘अत्थामे'त्ति अस्थामा' सामान्यतः शक्तिविकलः ‘अबले'त्ति शरीरशक्तिवर्जितः ‘अवीरिए'त्ति मानसशक्तिवर्जितः 'अपुरिस्कारपरक्कमेत्ति व्यक्तं नवरं पुरुषकारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारनिजं तिआत्मनो धरणं कर्तुमशक्यम् 'इतिकट्ठ'त्तिइतिकृत्वा इतिहेतोरित्यर्थः
'तुरए निगिण्हइत्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः ‘एगंतमंतंति 'एकान्तं' विजनम् 'अनंत' भूमिभाग ‘सीलाइंति फलानपेक्षाः प्रवृत्तयः ताश्चप्रक्रमाच्छुभाः 'वयाई'तिअहिंसादीनि 'गुणाई तिगुणव्रतानि 'वेरमणाइंति सामान्येन रागादिविरतयः पच्चक्खाणपोसहोववासाइंति प्रत्याख्यान-पौरुष्यादिविषयंपौषधोपवास--पर्वदिनोपवासः 'गीयगंधव्वनिनाए'त्तिगीतं-गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्वनिनादः।।
मू. (३७६) वरुणेणं भंते ! नागनतुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमा! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थणं अत्थेगतियाणं देवाणं चत्तारि पलिओवमानि ठिती पन्नत्ता, तत्तणं वरुणस्सवि देवस्स चत्तारि पलिओवमाइंठिती पन्नत्ता।
से णं भंते ! वरुणे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहितिजाव अंते करेहिति वरुणस्सणंभंते! नागनत्तुयस्सपियबालवयंसए कालमासे कालं किच्चा कहिं गए? कहिं उववन्ने?
गोयमा ! सुकुले पञ्चायाते । से णं भंते ! तओहिंतो अणंतरं उव्वट्टित्ता कहिं गच्छहिति कहिं उववजहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेंति।
सेवं भंते ! सेवं भंते ! ति॥
वृ, 'कालमासे'त्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उववन्नेत्ति प्रश्नद्वये ‘सोहम्मे' त्याद्येकमेवोत्तरंगमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । ‘आउक्खएणं' आयुःकर्मदलिकनिर्जरणेन ‘भवक्खएणं'ति देवभवनिबन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिइक्खएणं'ति आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति।
शतक-७ उद्देशकः-९ समाप्तः
-शतक-७ उद्देशकः-१०:वृ. अनन्तरोद्देशके परमतनिरास उक्तो दशमेऽपि स एवोच्यते इत्येवंसम्बन्धस्यास्येदं सूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org