SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१८ भगवती अङ्गसूत्रं ७/-/२/३४३ जीवा पञ्चक्खाणीवि एवं तिन्निवि, एवं मणुस्साणवि तिन्निवि, पंचिंदियतिरिक्खजोनिया आइल्लविरहिया सेसा सव्वे अपच्चक्खाणी जाव वेमाणिया । एएसि णं भंते! जीवाणं पञ्च्चक्खाणीणं जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा पञ्चक्खाणी पञ्चक्खाणापच्चक्खाणी असंखेज्ज- गुणा अपच्चक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोनिया सव्वत्थोवा पच्चक्खाणापच्चक्खाणी अपञ्च्चक्खाणी असंखेज्जगुणा, मणुस्सा सव्वत्थोवा पच्चक्खाणी पच्चक्खाणापच्चक्खाणी संखेज्जगुणा अपचक्खाणी असंखेज्जगुणा ।। वृ. ‘जीवा ण’मित्यादि, ‘पंचिंदियतिरिक्खजोनिया मणुस्सा य जहा जीव' त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्रत्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात्, इह चोक्तं गाथया 119 11 “तिरियाणं चारितं निवारियं अह य तो पुणो तेसिं । सुव्वइ सुव्वइ बहुयाणं चिय महव्वयारोवणं समए ॥” - परिहारोऽपि गाथयैव "न मइ० महव्वयसब्भावेऽवि चरमपरिणामसंभवो तेसिं । न बहुगुणापि जहा केवलसंभूइपरिणामो ॥" त्ति अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति- 'एएसि ण' मित्यादि, 'सव्वत्थोवा जीवा मूलगुणपच्चक्खाणी' ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्ख्येयगुणत्वात्, इह च सर्वविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यातत्वात् । ॥२॥ देशविरतेषु पुनर्मूलगुणवद्भयो भिन्ना अप्युत्तरगुनिनो लभ्यन्ते, ते च मधुमांसादिविचित्राभिग्रहवशाद्बहुतरा भवन्तीतिकृत्वा देशविरतोत्तरगुणवतोऽधिकृत्योत्तरगुणवतां मूलगुणवद्भ्योऽसङ्ख्यातगुणत्वं भवति, अत एवाह - 'उत्तरगुणपञ्चक्खाणी असंखेज्जगुण'त्ति, 'अपच्चक्खाणी अनंतगुण' त्ति मनुष्यपञ्चेन्द्रियतिर्यञ्च एव प्रत्याख्यानिनोऽन्ये त्वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वात्तेषामनन्तगुणत्वमिति । मनुष्यसूत्रे 'अपञ्चक्खाणी असंखेज्जगुणे' ति यदुक्तं तत्संमूर्च्छिममनुष्यग्रहणेनावसेयमितरेषां सङ्ख्यातत्वादिति । ‘एवं अप्पबहुगानि तिन्निवि जहा पढमिल्लए दंडए' त्ति तत्रैकं जीवानामिदमेव, द्वितीयं पञ्चेन्द्रियतिरश्चां, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणमूलगुणादिप्रतिबद्धे दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि, विशेषमाह - 'नवर' मित्यादि, 'पंचेंदियतिरिक्खजोनिया मणुस्सा य एवं चेव'त्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पञ्चेन्द्रियतिर्यञ्चोऽपि सर्वोत्तरगुणप्रत्याख्यानिनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्याभिमतत्वादिति । मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम् - तिन्निवि' त्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे' त्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञापनायां तथैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy