SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३१६ ॥२॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । ins नगारा अनिस्सियप्पा अपडिबद्धा | 'साकार' मिति आक्रियन्त इत्याकाराः - प्रत्याख्यानापवादहेतवो महत्तराकारादयः सहाकारैर्वर्त्तत इति साकारम्, अविद्यमानाकारमनाकारं यद्विशिष्टप्रयोजनसम्भवाभावे कान्तारदुर्भिक्षादी महत्तराद्याकारमनुच्चारयद्भिर्विधीयते तदनाकारमिति भावः केवलमनाकारेऽप्यनाभोगसहसाकारावुच्चारयितव्यावेव, काष्ठाङ्गुल्यादेर्मुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत' मिति इत्यादिभि कृतपरिमाणम्, अभानि च119 11 "दत्तीहि व कवलेहि व घरेहि भिक्खाहिं अहव दव्वेहिं । 1 भगवतीअङ्गसूत्रं ७/-/२/३४१ जो भत्तपरिच्चायं करेति परिमाणकडमेयं ॥" - 'निरवशेषं' समग्राशनादिविषयं, भनितं च" सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज्जविहिं । परिहरइ सव्वभावेणेयं भनियं निरवसेसं ॥ साएयं चेव' त्ति केतः-चिह्नं सह केतेन वर्त्तते सकेतं, दीर्घता च प्राकृतत्वात्, सङ्केतयुक्तत्वाद्वा सङ्केतम्-अङ्गुष्ठसहितादि, यदाह 119 11 "अंगुट्ठगंठीघरसेऊसासथिबुगजोइक्खे । भनियं सकेयमेयं धीरेहिं अनंतणाणीहिं || 'अद्धा 'त्ति अद्धा कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम्, आह च119 11 “अद्धापच्चक्खाणं जं तं कालप्पमाणछेणं । पुरिमड्डपोरुसीहिं मुहुत्तमासद्धमासेहिं ॥ मू. (३४२) देसुत्तरगुणपचच्चखाणे णं भंते! कइविहे पन्नत्ते ?. गोयमा ! सत्तविहे पत्रत्ते. तंजहा-दिसिव्वयं.१ उवभोगपरीभोगपरिमाणं २ अनत्थदंडवेरमणं ३ सामाइयं ४ देसावगासियं ५ पोसहोववासो ६ अतिहिसंविभागो ७ अपच्छिममारणंतियसंलेहणाझूसणाराहणता । वृ. ‘उवभोगपरिभोगपरिमाणं' ति उपभोगः सकृद्भोगः, स चाशनपानानुलेपनादीनां, परिभोग-स्तु पुनः पुनर्भोगः, स चासनशयनवसनवनितादीनाम् । Jain Education International 'अपच्छिममारणंतियसंलेहणाझूसणाराहणय'त्ति पश्चिमैवामङ्गलपरिहारार्थः मपश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते, किं तर्हि ?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी संलिख्यतेकृशीक्रियतेऽनया शरीरकषायादीति संलेखना - तपोविशेषलक्षणा ततः कर्म्मधारयाद् अपश्चिममारणान्तिकसंलेखना तस्या जोषणं सेवनं तस्याराधनम् - अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता । इह च सप्त दिव्रतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि सा देशोतरगुणवतो देशोत्तरगुणः, आवश्यके तथाऽभिधानात्, इतरस्य तु सर्वोत्तरगुणः साकारानाकारादिप्रत्याख्यानरूपत्वादिति संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्, अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्यस्यार्थः स्य ख्यापनार्थः इति ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy