________________
शतकं -६, वर्ग:-, उद्देशकः-८
२९७
अत्थि णं भंते! सोहम्मीसाणाणं कप्पाणं अहे गेहाइ वा २ ?, नो इणट्टे समट्टे । अत्थि णं भंते ! उराला बलाहया ? हंता अत्थि, देवो पकरेति असुरोवि पकरेइ नो नाओ पकरेइ, एवं थनियसदेवि ।
अत्थि णं भंते ! बायरे पुढविकाए बादरे अगनिकाए ?, नो इणट्टे समट्टे, नन्नत्थ विग्गहगतिसमावन्नएणं । अत्थि णं भंते! चंदिम० ?, नो तिणट्टे समट्टे । अत्थि णं भंते ! गामाइ वा ?, नो तिणट्टे स० । अत्थि णं भंते ! चंदाभाति वा ?, नो तिणट्टे समट्टे ।
एवं सणकुमारमाहिंदेसु नवरं देवो एगो पकरेति । एवं बंभलोएवि । एवं बंभलोगस्स उवरिं सव्वहिं देवो पकरेति, पुच्छियव्वोय, बायरे आउकाए बायरे अगनिकाए बायरे वन्नस्सइकाए अन्नं तं चेव । गाहा
वृ. 'कइ ण 'मित्यादि, 'बादरे अगनिकाए' इत्यादि, ननु यथा बादराग्नेर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते एवं बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्वं निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्कायायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति, 'नो नाओ' त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते ।
'नो असुरो नो नागो' त्ति, इहाप्यत इव वचनाच्चतुर्थ्यादीनामधोऽ सुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात्, अत एवाह- ‘देवो पकरे’इत्यादि, इह च बादरपृथिवीतेजसोर्निषेधः सुगम एवास्वस्थानत्वात्, तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाब्वनस्पतिसम्भवाद् वायोश्च सर्वत्र भावादिति ।
'एवं सणंकुमारमाहिंदेसु 'त्ति इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते सच तमस्कायसद्भावतोऽवसेय इति । 'एवं बंभलोयस्स उवरिं सव्वहिं' ति अच्युतं यावदित्यर्थः, परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः 'पुच्छियव्वो य'त्ति बादरोऽप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेव 'त्ति वचनान्निषेधश्च, यतोऽनेन विशेषोक्तादन्यत्सर्वं पूर्वोक्तमेव वाच्यमिति सूचितं, तथा ग्रैवेयकादीषत्प्राग्भारान्तेषु पूर्वोक्तं सर्वं गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतोऽध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतव्यास्तां सूत्रसङ्ग्रहगाथयाऽऽह
मू. (३१४) तमुकाए कप्पपणए अगनी पुढवी य अगनि पुढवीसु । आउतेऊवणस्सइ कप्पुवरिमकण्हराईसु ।।
वृ. ‘तमुकाय’गाहा, ‘तमुकाए 'त्ति तमस्कायप्रकरणे प्रागुक्ते 'कप्पपणए' त्ति अनन्तरोक्तसौधर्मादिदेवलोकपञ्चकेच 'अगनी पुढवी य'त्ति अग्निकायपृथिवीकायावध्यतव्यौ- 'अस्थिपं भंते! बादरे पुढविकाएं बादरे अगनिकाए ?, नो इणठ्ठे समठ्ठे, नन्नत्थ विग्गहगतिसमावन्नएणं' इत्यनेनाभिलापेन।।
तथा 'अगनि’त्ति अग्निकायोऽध्येतव्यः 'पुढवीसु' त्ति रत्नप्रभादिपृथिवीसूत्रेषु, 'अत्थि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International