________________
२६४
भगवतीअङ्गसूत्रं ५/-/९/२६७ एकत्राश्रये सहस्रादिसङ्ख्यप्रदीपप्रभा इव, ते चैकत्रै समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च, सच समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्तते, तत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीत्तश्च भवतीति, एवंचासङ्घयेयेऽपि लोकेरात्रिन्दिवान्यनन्तानि परीत्तानि च कालत्रयेऽपियुज्यन्त इति
एतदेव प्रश्नपूर्वकंतत्संमतजिनमतेनदर्शयन्नाह- सेनून मित्यादि, भे'त्तिभवतांसम्बन्धिना 'अज्जो'त्ति हे आर्या ! 'पुरिसादानीएणं'ति पुरुषाणांमध्ये आदानीयः-आदेयः पुरुषादानीयस्तेन 'सासए'त्ति प्रतिक्षणस्थायी, स्थिर इत्यर्थः, 'बुइए'त्ति उक्तः, स्थिरश्चोत्पत्तिक्षणादारभ्य स्यादित्यत आह-'अनाइए'त्तिअनादिकः, सचसान्तोऽपि स्याद्भव्यत्ववदित्याह-'अनवयग्गे'त्तिअनवदनःअनन्तः परित्ते'त्ति परिमितः प्रदेशतः, अनेन लोकस्यासङ्ग्येयत्वं पार्श्वजिनस्यापि संमतमिति दर्शितम्।
तथा 'परिवुडे'त्ति अलोकेन परिवृतः 'हेट्टा विच्छिन्ने'त्ति सप्तरजुविस्तृतत्वात् ‘मज्झे संखित्ते'त्ति एकरजुविस्तारत्वात् 'उप्पिं विसाले'त्ति ब्रह्मलोकदेशस्य पञ्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलियंकसंठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्यां 'मज्झे वरवइरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिःकश्चेकप्रत्ययः, 'उप्पिं उद्धमुइंगागारसंठिए'त्तिऊो न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, 'अनंता जीवघण'त्ति 'अनन्ताः' परिमाणतः सूक्ष्मादिसाधारण-शरीराणां विवक्षितत्वात्, सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात्
जीवाश्च ते घनाश्चानन्तपर्यायसमूहरूपत्वादसङ्घयेयप्रदेशपिण्डरूपत्वाच्च जीवघनाः, किमित्याह-'उप्पजित्तेति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा ‘परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतयावासङ्क्षिप्ताः, जीवधना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम् 'अनंता राइंदिया'इत्यादि तस्योत्तरं सूचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषाअप्यनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहृतो भवतीति । अथ लोकमेव स्वरूपत आह
___ 'से (नून) भूए'त्तियत्रजीवघनाउत्पद्य २ विलीयन्तेस लोकोभूतः-सद्भूतोभवनधर्मयोगात्, सचानुत्पत्तिकोऽपि स्याद्यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्चान-श्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः,स चानन्वयोऽपिकिल भवतीत्यत आह-परिणतःपर्यायान्तरानि आपन्नो न तु निरन्वयनासेन नष्टः ।
___ अथ कथमयमेवंविधो निश्चीयते? इत्याह-'अजीवेहि ति अजीवैः' पुद्गलादिभिः सत्तां बिभ्रद्भिरुत्पद्यमानैर्विगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः ‘लोक्यते' निश्चीयते प्रलोक्यते' प्रकर्षेण निश्चीयते, भूतादि धर्मकोऽयमिति, अत एव यथार्थःनामाऽसाविति दर्शयन्नाह-'जे लोक्कइ से लोए'त्ति यो लोक्यते-विलोक्यते प्रमाणेन स लोको-लोकशब्दवाच्यो भवतीति, एवं लोकस्वरूपाभिधायकपार्श्वजिनवचनसंस्मरणेन स्ववचनं भगवान् समर्थिःतवानिति । 'सपडिक्कमणं'ति आदिमान्तिमजिनयोरेवावश्यंकरणीयः सप्रतिक्रमणो धर्मोऽन्येषांतुकदाचिअतिक्रमणं, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org