________________
भगवतीअङ्गसूत्रं ५/-/८/२६२
॥३६॥
नउई पंचानउई अट्ठानउई तहेव नवनवई । एवइयाइं सहस्साइं सप्पएसाण विवरीयं ॥ एएसिं जहसंभवमत्थोवणयं करिज्ज रासीणं । सब्भावओ य जानिज ते अनंते जिणाभिहिए ।। द्रव्ये प्रायेण द्वयादिगुणा अनन्तगुणान्ताः कालकत्वादयो भवन्ति एकगुणकालकादयस्त्वल्पा इति भावः ॥ ३ ॥
अयमर्थः यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्घातभेदसूक्ष्मत्वबादरत्वादिपरिणामान्तरमापन्नः स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते, तत्र चैकसमयस्थितिरित्यन्ते, परिणामाश्च बहव इति प्रतिपरिणामं कालाप्रदेशसंभवात्तद्बहुत्वमिति । ४ ॥
एतदेव भाव्यते- भावतोयेऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति-सप्रदेशा अप्रदेशाश्चेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, 'एव' मिति द्विविधा अपि भवन्ति, ततश्च एकगुणकालाद् द्विगुणकालादिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति ।। ५-६ ॥
२५८
॥ ३५ ॥
अथ प्रेरकः- एवमिति-यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति, अत्रोत्तरम् - अयमभिप्रायः- यद्यप्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वादीनामनन्तभाग एव ते वर्त्तन्त इति न तदद्द्द्वारेण कालाप्रदेशानामनन्तगुणत्वं अपि त्वसङ्ख्यातगुणत्वमेवेति ॥ ७-८ | एवं तावत् 'भावं' वर्णादिपरिणामम् 'इमं' उक्तरूपमेकाद्यनन्तगुणस्थानवर्त्तिनमित्यर्थः प्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां 'सिद्धा प्रतिष्ठिता, 'द्रव्येऽपि' द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिषु 'एष एव' भावपरिणामोक्त एव गमः - व्याख्या ॥ ९ ॥ 'एवमेव' द्रव्यपरिणामवद् भवति 'क्षेत्रे' क्षत्रमधिकृत्य एकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा ॥ १० ॥
यथा क्षेत्रतः एवमवगाहनादितोऽपीत्येतदुच्यते अवगाहनायाः सङ्कोचं च प्रतीत्य कालाप्रदेशाः स्युः, तथा सूक्ष्मबादर स्थिरास्थिरशब्दमनः कर्मादिपरिणामं चव प्रतीत्येति ॥ ११ 'एसिं' ति पुद्गलानामित्यर्थः ।। १२-१३-१४-१५ ।।
अनन्तेभ्यः अनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थः तया परमाणवोऽनन्तगुणाः सूत्र उक्ताः, सूत्रं चेदम् “सव्वत्थोवा अनंतपएसिया खंधा दव्वट्टयाए ते चेव पएसट्टयाए अनंतगुणा परमाणुपोग्गलादव्वट्टयाए पएसठ्ठयाए अनंतगुणा, संखेज्जपएसिया खंधा दव्वठ्ठया संखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुणा असंखेज्जपएसिया खंदा दव्वट्टयाए असंखेज्जगुणा ते चेव पएसट्टयाए असंखेज्जगुण "त्ति । सङ्घयेयतमे भागे सङ्ख्यातप्रदेशिकानामसङ्घयेयतमे चासङ्ख्यातप्रदेशिकानामणवो वर्त्तन्ते, उक्तसूत्रप्रमाण्यादिति ॥ १६-१७॥
रासीहिं सङ्खेयप्रदेशिकानन्तप्रदेशकाभिधानाभ्याम्, वाऽभविष्यन्निति ॥ १८ ॥ 'न शेषराश्यो' रिति, कालतः अस्यायमर्थः अनन्तप्रदेशिकराशेरनन्तगुणास्ते, सङ्घयातप्रदेशिकराशेस्तु सङ्ख्यातभागे, सङ्ख्यातभागस्य च विवक्षया नात्यन्तमल्पता, कालतः सप्रदेशेष्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org